मध्यप्रदेश

प्राकृतिकसौन्दर्यस्य प्रतीक: बसन्तोत्सव: – “कुलदीपमैन्दोला”।

🔵 जीवनदर्शनस्य, नवसृजनस्य, तथा आनन्दस्य प्रतीकः बसन्त: "डा.अखिलेशद्विवेदी। 🔵भारतीयसाहित्ये वसंतोत्सवस्य पर्वण: वर्तमानप्रासंगिकतायाम् आभासीयपटले संगोष्ठी आयोजिता

रतलाम-मध्यप्रदेशे स्थितं श्रीकलामोहनभाषासाहित्यसंगीत- केन्द्रं, सुखेडा इत्यनेन वसन्तपञ्चम्याः शुभसंदर्भे गूगलमीट् अनेन माध्यमेन आभासीयपटले वसन्तोत्सवस्य अभिनन्दनं कृत्वा संगोष्ठी आयोजिता। अस्या: संगोष्ठ्याः प्रमुखः विषयः आसीत्—
“प्राचीनभारतीयसाहित्ये वसन्तः च वसन्तोत्सवस्य वर्तमानप्रासङ्गिकता।” अस्मिन् सन्दर्भे मुख्यवक्ता कुलदीपमैन्दोला उक्तवान् यत् भारतीयसंस्कृतौ इतिहासे वसन्त-ऋतुः विशेषस्थानं धारयति। ऋतुः न केवलं प्रकृतेः सौन्दर्यं वर्धयति अपितु सांस्कृतिकजीवने अपि विशेषं प्रभावं करोति। वसन्तः भारतीयसाहित्ये, विशेषतः संस्कृतसाहित्ये, न केवलं ऋतुरूपेण वर्ण्यते अपि तु प्रेम्ण:, उल्लासस्य, नवजीवनस्य प्रतीकरूपेण अपि उपस्थाप्यते। प्राकृतिकसौन्दर्यस्य प्रतीक: बसन्तोत्सव:वर्तते।

संस्कृतसाहित्ये वसन्तस्य विशदं वर्णनं दृश्यते। कालिदासस्य “ऋतुसंहार-” ग्रन्थे वसन्तस्य सौन्दर्यं विस्तारपूर्वकं निरूपितम् अस्ति। तत्र लिख्यते यथा पुष्पाणां प्रस्फुटनं, मधुकराणां गुंजनं, आम्रवृक्षाणां मञ्जरीगन्धः, कोकिलानां कूजनं इत्यादयः विशेषलक्षणानि वसन्तस्य शोभां वर्धयन्ति सर्वप्रियं चारुतरं बसन्ते विद्यते।

“अभिज्ञानशाकुन्तलम्” नामके नाटके अपि वसन्तस्य प्रभावः प्रकटितः अस्ति, यत्र शृंगाररसस्य उत्कर्षः वसन्ते भवति। अन्ये अपि काव्यग्रन्थाः, यथा माघस्य “शिशुपालवधम्”, भारवेर् “किरातार्जुनीयम्” इत्यादिषु वसन्तस्य महत्त्वं प्रतिपादितम् अस्ति। वसन्तोत्सवः भारतीयसंस्कृते वसन्तपञ्चमी इत्यस्मिन दिने सरस्वतीदेव्याः पूजनं कृतं भवति, यः विद्यारम्भस्य दिवः इति गण्यते। भारतीयसंस्कृते वसन्तोत्सवः केवलं ऋतुसंक्रमणस्य उत्सवः न, अपितु नूतनजीवनस्य, ज्ञानस्य च आराधना अपि अस्ति। राजद्वारेषु अपि वसन्तोत्सवस्य आयोजनं प्राचीनकाले प्रचलितमासीत्। गुप्तकालादिषु वसन्तोत्सवः विशेषमहत्त्वं प्राप्तः आसीत्, यत्र राजकुलानि, कवयः, संगीतज्ञाः च वसन्तस्य स्वागतं कृतवन्तः।

वसन्तोत्सवस्य वर्तमानप्रासङ्गिकता

अद्यतनसामाजे वसन्तोत्सवः केवलं धार्मिकं पर्व न, अपितु सांस्कृतिकं, पर्यावरणीयं च महत्त्वं धारयति। वसन्तस्य आगमनेन प्रकृतिः नूतनजीवनं प्राप्नोति, तथा अस्माकं जीवनं अपि नवीकृतं भवति। आधुनिकजगति, यत्र पर्यावरणदूषणं वर्धमानं अस्ति, वसन्तोत्सवः अस्मान् प्रकृतिसंरक्षणस्य संदेशं ददाति।वसन्तः केवलं ऋतुः न, अपितु भारतीयसंस्कृतेः एकः महत्वपूर्णः अंगः अस्ति। संस्कृतसाहित्ये वसन्तस्य निरूपणं प्रेम, सौन्दर्यं, नवसृजनं च प्रकाशयति। अद्यतनयुगे अपि वसन्तोत्सवस्य प्रासङ्गिकता अपरिहार्या अस्ति, यतोहि एषः जीवनस्य नूतनता, उल्लासः, च सौहार्दस्य प्रतीकः भवति।
अतः वयं सर्वे वसन्तोत्सवस्य परम्परां संरक्षितुं प्रयत्नं कुर्मः, तथा च प्रकृतिं पोषयामः।

*जीवनदर्शनस्य, नवसृजनस्य, तथा आनन्दस्य प्रतीकः बसन्त: “डा.अखिलेशद्विवेदी”*

पाणिनिसंस्कृतविश्वविद्यालय-उज्जयिनीत:
डा. अखिलेशद्विवेदीमहाभाग: वसन्तोत्सवे अध्यक्षीयरूपेण मार्गदर्शनं कृतवान् । तेनोक्तं यत् श्रीमतां वाग्देव्याः कृपाकटाक्षेन अद्य वयं वसन्तोत्सवस्य पुण्यपर्वणि संकीर्तयामः। वसन्तः केवलं ऋतुः न, अपितु जीवनस्य नूतनप्रभातेः, सौन्दर्यस्य च प्रतीकः अस्ति।

अस्मिन ऋतौ धरा नूतना शोभां प्राप्नोति, पादपाः नवपल्लवैः भूषिताः भवन्ति, पुष्पाणां सुवासना वातावरणं सुगन्धितं करोति, मधुकराः गुंजनं कुर्वन्ति, कोकिलाः मधुरस्वरेण गायन्ति। एवं सम्पूर्णं जगत् आनन्दमयम् भवति।

संस्कृतसाहित्ये वसन्तस्य विशेषमहत्त्वं दृश्यते। कालिदासेन, माघेन, भारविणा च वसन्तस्य अनिर्वचनीयं सौन्दर्यं वर्णितम्। वसन्तः केवलं प्रकृतेः सौन्दर्यमात्रं न, अपितु अस्माकं अन्तःकरणस्य, विचाराणां, तथा जीवनस्य अपि नवीकरणं करोति।

अद्यतनयुगे वसन्तोत्सवस्य प्रासङ्गिकता अपि महान् अस्ति। अस्माकं जीवनं यदि वसन्तवत् भवेत्, तर्हि अस्माकं चित्तं सदैव आनन्दमयं, नवसृजनशीलं च भविष्यति। वयं प्रकृतेः संरक्षणं कुर्याम, जीवनं उत्सवमयं कुर्मः, तथा संवेदनशीलतां, सौहार्दं च वर्धयाम। अत एव, वसन्तोत्सवः केवलं एकः पर्वः न, अपितु सः जीवनदर्शनस्य, नवसृजनस्य, तथा आनन्दस्य प्रतीकः अस्ति।

रामायणकेन्द्रभोपालमध्यप्रदेशस्य, हिन्दीसाहित्यभारती- मध्यप्रदेशस्य, राष्ट्रभाषाप्रचारसमिते: आदिसंस्थानां रतलाम – जनपदाध्यक्ष: एवं त्रिभाषीविद्वान् कार्यक्रमसंयोजक: डा.कारुलालजमडाकारुण्यवर्य: ससंचालनं कुर्वन् समेषाम् आभारं प्रकटितवान् ।

अस्य विषयस्य संदर्भे सुश्री अलका जोशी (रतलाम) तथा श्री जितेन्द्रवर्मा (नागौर) इत्येताभ्यां सारगर्भिताः विचाराः प्रोक्ता: संगोष्ठ्याः शुभारम्भे श्री वर्मामहोदयेन सरस्वतीवन्दना प्रस्तुता।
वसन्तपञ्चम्याः एषा संगोष्ठी भारतीयसंस्कृतेः गौरववर्धिनी अभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button