संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
मध्यप्रदेश

मध्यप्रदेशीयः जनजातिवर्गस्य विधायकः आंग्लभाषायां शपथवचनं उक्तवान्।

प्रदेशस्य षोडशीविधानसभायाः कृते नवनिर्वाचितानां विधायकानां शपथ-प्रक्रिया प्रचलति। प्रथमे दिने २०७ विधायकाः शपथ -वचनम्, उक्तवन्तः। येषु द्वादशविधायकाः एतादृशाः ये हिंदी वा आंग्लभाषां विहाय संस्कृतेन शपथ-वचनम् उक्तवन्तः। यत्र प्रदेशस्य निर्धनतमेषु विधायकेषु परिगण्यमानरतलामजिल्लायाः मौलानाक्षेत्रतः’ भारती आदिवासी पार्टी ‘ इत्यस्य विधायकः कमलेश्वरडोडियारवर्यः आंग्लभाषायां शपथ-वचनम् उच्चारितवान्। भोपालमध्यक्षेत्रस्य कांग्रेसविधायकः अरिफमसूदवर्येण उर्दूमाध्यमेन शपथ-वचनम् उदितम्। अत्र विशेषः अंशः अयम् यत् संस्कृतभाषायां शपथ -वचनम् वदन्तः सर्वे विधायकाः ‘भाजप’-पक्षतः सन्ति। कांग्रेसस्य ६६ विधायकेषु एकः अपि संस्कृतेन शपथं न उक्तवान्। संस्कृतं देवभाषा उच्यते।
विधानसभायाः विशेष- सूत्रस्य प्रथमे दिने सोमवासरे सामयिकाध्यक्षः गोपालभार्गववर्यः १०७ विधायकेभ्यः शपथं दत्तवान्। मङ्गलवासरे अवशिष्टं एभ्यः विधायकेभ्यः शपथं दानं भविष्यति। प्रथमे दिने आदौ मुख्यमन्त्री डा.मोहनयादववर्यः,नेताप्रतिपक्षः उमंंगसिधार:, उपमुख्यमंत्री राजेन्द्रशुक्लवर्यः , जगदीशदेवडा, पूर्वमुख्यमन्त्री श्रीः शिवराजचौहानवर्यः एतैः सह १५ वरिष्ठाः शपथं गृहीतवन्तः। ततः परम् विधानसभाक्षेत्रक्रमेण शपथ-दानम् अभवत्। संस्कृतेन शपथम् उक्तवन्तः सर्वे विधायकाः भाजपायिनः। येषु दमोहजिल्लायाः जबेराक्षेत्रतः विधायकः धर्मेन्द्रलोधी,रीवाजिलायाः मउगंजक्षेत्रतः प्रदीपपटेल:,सीधीतः रिती पाठक:,जबलपुर-(उ.)तः अभिलाषः पाण्डे, डिंडोरीजिल्लायाः शहपुरातः ओमप्रकाशधुर्वे,बालाघाटस्य लांजीतः राजकुमारः कर्राए,कटंगीतः गौरवपारधी,रायसेनजिल्लायाः उदयपुरातः नरेन्द्रः पटेल:,भोपाल-(द.)तः भगवानदाससबनानी,राजगढस्य
सारंगपूरतः गौतमटेटवाल:,शाजापूर- (जि.शुजालपूर-)तः इंदरसिंहपरमार:, देवासजिलायाः खातेगावतः आशीषशर्मा च संस्कृतेन शपथ-वचनम् उक्तवन्तः। कांग्रेसस्य कोऽपि विधायकः संस्कृतेन शपथ-वचनम् न उक्तवान्। सर्वे हिंदीमाध्यमेन एव शपथं उक्तवन्तः।केवलं अरीफमसूदः उर्दूमाध्यमेन शपथं गृहीतवान्।पूर्वमुख्यमन्त्री कमलनाथस्य विदेशयात्रायां विद्यमानस्य कारणात् सः विशेष-सत्रे शपथं न स्वीकरिष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button