भारतस्य चेतनायाः पुनः जागरणस्य सूत्रं संस्कृते निहितं- विनयसिंह:

संस्कृतभारतीद्वारा मध्यभारतप्रान्तेन सर्वकारीय-उत्कृष्ट-विद्यालये “१०दिवसीयः संस्कृत-संभाषण-वर्गः आयोजितः। उद्घाटन-कार्यक्रमे मुख्यातिथिः मान्या मोनिकापटेलः, उपसंचालिका जिला-शिक्षा-अधिकारी कार्यालयः रायसेनम्, विशिष्टातिथिः तोरणसिंहः विश्वकर्मा सेवानिवृत्तः शिक्षकः, अध्यक्षः श्रीमती स्वातिः चौहानः प्राचार्या शासकीय-उत्कृष्ट-विद्यालय: रायसेनम्, मुख्यवक्ता विनयसिंहराजपूतः च उपस्थिता: आसन्।
कार्यक्रमस्य कुशलसंचालनं रामस्वरूपः धाकड़ः प्रबंधनं रायसेनसमितिद्वारा कृतम्।
छात्रान् सम्बोधयन् मुख्यवक्ता श्री विनयः उक्तवान् यत् अद्य विश्वमञ्चे संस्कृतं वर्तते। संस्कृतं व्यक्तिं निष्ठावान् करोति, अतः विकसितस्य भारतस्य कृते संस्कृतं मातृभाषा भवेत इति ।
विशेषातिथिः मन्या मोनिका अवदत् यत् संस्कृततः सर्वाः भाषाः उद्भूताः, अतः अस्माभिः अस्माकं प्राचीनतमभाषायाः ज्ञानं प्राप्तव्यम्।
कार्यक्रमस्य संचालनं रामस्वरूपधाकडेन, प्रबंधनं च संस्कृतभारतीसमित्या: रायसेनेन कृतम्।







