संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

संस्कृतभारत्या: सनातनसत्संगसंस्कृत-महाविद्यालयकाशीपुरस्य संयुक्ततत्त्वावधाने गीताजयन्त्या: भव्यायोजनम्

काशीपुरम् । शुक्रवासरे गीताजयन्त्या: शुभावसरे संस्कृतभारत्या: सनातनसत्संगसंस्कृत-महाविद्यालयकाशीपुरस्य संयुक्ततत्त्वावधाने गीताजयन्त्या: भव्यायोजनं सञ्जातम्।
अतिथिभिः दीपप्रज्वलनेन कार्यक्रमस्य आरम्भः कृतः। विद्यालयस्य छात्राः वैदिकाह्वानं सरस्वतीवन्दनं च कृत्वा कार्यक्रमं अग्रे नीतवन्तः, तदनन्तरं मुख्यातिथिनां संस्कृतभारतीकार्यकर्तृभिः मालापरिधानं कृत्वा, हृदयफलकेन च स्वागतं कृतम्। कार्यक्रमस्य अध्यक्षता विद्यालयप्रबन्धकेन कृता। राधेहरिस्नातकोत्तरमहाविद्यालयकाशीपुरस्य रसायनविज्ञानविभागाध्यक्ष: डॉ. केसीजोशी मुख्यातिथिरूपेण उपस्थित: आसीत् । डॉ. प्रणवीरप्रतापसिंह: विशेषातिथिरूपेण उपस्थित: अभूत् | अतिथिनां स्वागतं संस्कृतभारत्याः वरिष्ठकार्यकर्ता शैक्षणिकपरिषदः सदस्यः डॉ. सुरेन्द्रशर्मा मधुर: कृतवान् । डॉ. जगदीशचन्द्रपाण्डेय: कार्यक्रमस्य परिचयं प्रस्तुतवान् । संस्कृतभारत्याः प्रान्तीयशिक्षणप्रमुखः डॉ. राघवझा सर्वेभ्यः गीतायाः अनेकानि महत्त्वपूर्णानि तथ्यानि अवगतं कारितवान् । डॉ. जितेन्द्रपन्त: गीतां कल्पतरु इव मानवजीवने उपयोगी इति वर्णितवान् । मुख्यातिथि: श्री केसी जोशी गीताया: जीवने उपयोगितां प्रकाशयन् गीताध्ययनाय प्रेरितवान् । सर्वे मिलित्वा सामूहिकरूपेण गीतापाठं कृतवन्तः।

अनेन सहैव श्रीमद्भागवतगीताध्ययने छात्ररुचिं वर्धयितुं गीताश्लोककण्ठस्थीकरणप्रतियोगिताया: आयोजनं कृतं। छात्राः गीतायाः १५तमं अध्यायं हृदयेन पाठितवन्तः यस्मिन् संस्कृतविद्यालयस्य छात्रः भास्करलखचौरा प्रथमः, द-गुरुकुल -फाउण्डेशनस्य छात्रः श्री कृष्णा झा द्वितीयः, गोविन्दझा तृतीयः च आसन् । ऋतिकशर्मा, उदयभारद्वाज: सान्त्वना पुरस्कारं प्राप्तवन्तौ। सर्वेषां प्रतिभागिनां कृते राशि: च स्मृतिचिह्नानि पुरस्काररूपेण वितीर्णानि। कार्यक्रमस्य सफलसंचालन डॉ.राघवझाद्वारा विहितं।

कार्यक्रमस्य अन्ते संस्कृतमहाविद्यालयस्य प्राचार्यः तुलारामशर्ममहोदयः सर्वेभ्यः अतिथिभ्यः कृतज्ञतां प्रकटयन् भविष्ये अपि संस्कृतस्य प्रचारार्थं अग्रे गन्तुं अनुरोधं कृतवान्। आचार्यश्री महेश: आनन्द: प्रथमपुरस्कारं छात्राय ₹ 1100 द्वारा पुरस्कृतवान् । कार्यक्रमे श्री राजेन्द्रजोशी, निशांतबेलवाल:, निष्कर्ष:, उमा, अंजलि: राजेशजोशी आदय: अनेका: जना: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button