संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

तिरुपतिस्थराष्ट्रियसंस्कृत-विश्वविद्यालये श्रीमद्भगवद्गीतायाः पारायणं च विशिष्टव्याख्यानं

तिरुपति: । विदितमेवैतद्विदुषां यत्किल सन्तापमयसंसारजीर्णकान्तारनिरन्तरभ्रमणश्रमजुषो जीवजातस्य स्वप्रकाशपरमानन्दचिद्धामनिर्विरामविश्रामनिदानम् उपनिषदर्णवोन्मथनं समुद्गातात्मतत्त्वामृतकलषमखिलार्तिहारिणा करुणागृहीतमानवतनुना हरिणा गीताशास्त्रं समुपदेशि। मार्गशीर्षशुक्लैकादश्यां श्रीकृष्णेन अर्जुनाय गीताशास्त्रमदोऽगादीति प्रथितम्। तमुद्दिश्य प्रतिहायनम् अस्मिन्नेव दिने गीताजयन्त्युत्सवः आचाचर्यमाणस्संलक्ष्यते।

तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालय ऐषमः 22-12-2023 तमे दिनाङ्के आचार्याणां के.गणपतिभट्टानां तट्टा.राघवाचार्युलुवर्याणाञ्च समुपस्थित्या उत्सवोऽयं पर्यपालि। उत्सवेऽस्मिन् श्रीश्रीहरिशिवरामधायगुडेवर्यैः सभा समचालि। तदनु श्रीधरसुरेशकृष्णाभ्यां वैदिकमङ्गलं व्यधायि । ततः साध्यक्ष्यैस्सर्वैरपि दीपप्रज्वालनम् अकारि। एवम् आचार्याः के.गणपतिभट्टमहाभागाः गीतोपरि गीताया अद्वैतामृतवर्षिणीत्वं भवसागरतरणाय सुकल्पपोतायमानत्वं च समुपवर्णयन्तः प्रवृत्तिनिवृत्तिलक्षणवैदिकधर्मतत्त्वावबोधत्वे गीतायाः निवृत्तिलक्षणोपदेशवैशिष्ट्यविषये, अद्वैतरूपधर्मक्षेत्रस्य कुरुक्षेत्रत्वरूपेण परिणमने मामकीनाहङ्कारहेतुत्वसन्दर्भे, पञ्चाङ्गषडङ्गन्यासादिभिर्गीतापारायणे प्राचीनपरम्पराविषये, तत्त्वमसीतिमहावाक्यसन्दर्भेत्यादिविषये, आधुनिकसमाजे गीताया युवजनोपयोगिताया अश्वत्थामविकर्णयोर्मकरत्वस्य च विषये विशिष्टव्याख्यानं प्रादुः ।

तत्पश्चात् श्रीमद्भगवद्गीतायाः द्वितीयत्रयोदशाष्टादशाध्याया अपारायिषत। इत्थम् आचार्याणां तट्टा.राघवाचार्युलुवर्याणां मुख्याभ्यागतभाषणेन समऽपि नितरां प्रीतिं समवहन्। एवमेव विभागाध्यक्ष्याणां के.एस्.सतीश्-आचार्याणाम् अभ्यागतपरिचर्यया, डा.मनोजसिन्देमहभागानां धन्यताविष्कृत्या शान्तिमन्त्रेण च समेऽपि सभाकार्यक्रमाः समाप्तिमगुः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button