हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् प्राप्तं
💦युवराजवाणी💦 । झारखण्ड-विधानसभायाम् अद्य हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् अधिगतम्। झारखण्ड-मुक्तिमोर्चाया: नेतृत्व-युतस्य संयुते: पञ्चचत्वारिंशद् विधायकै: विश्वास-प्रस्तावस्य पक्षे मतदानम् आचरितम्। अत: पूर्वं मुख्यमन्त्री हेमन्त: सोरेन: राज्यविधानसभायां विश्वास-प्रस्तावं प्रस्तुतवान्। यस्मिन् भूरि चर्चा: सञ्जाता:। मतविभाजनस्य अवसरे विपक्षेण भृशं कोलाहल: समाचरित:। सोरेन-सर्वकारं विरुध्य घोषोच्चारणं कृतम्। विश्वासमतस्य अनन्तरं सदनम् अनिश्चित-कालावधये स्थगितं जातम्। अष्टचत्वारिंशद्-वर्षीय: सोरेन: कथित-भूमि-प्रवञ्चनायां अवैध-धनाहरण-प्रसंगे प्रत्याभूति-प्राप्तेरनन्तरं एक-सप्ताहाभ्यन्तरे जुलाई-चतुर्थ्यां मुख्यमन्त्रित्वेन शपथ-वचनं स्वीकृतवान् आसीत्। अत्रान्तरे मुख्यमन्त्रिणा मन्त्रिमण्डलस्य विस्तारिकरणप्रसड़्गे द्वौ कांग्रेसदलीयौ नेतारौ एकश्च झारखण्ड-मुक्तिमोर्चाया: नेता मन्त्रिमण्डले समावेशिता सूच्यन्ते इति।