संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहलीराजनीति

“परीक्षा पे चर्चा” अद्य

ऐषमो जनवरी ऊनत्रिन्श्याम् “परीक्षा पे चर्चा” इति कार्यक्रमस्य आयोजनं अद्य सञ्जायते। एतदर्थं द्वि कोट्यधिकै: छात्रै:, अभिभावकै: शिक्षकैश्च पञ्जीकरणं कृतम् अस्ति। सोमवासरे प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वयमेव “परीक्षा पे चर्चा” इत्यस्मिन् कार्यक्रमे समुपस्थितान् छात्रान् अभिभावकान् शिक्षकान् च सम्बोधयिष्यति। तेभ्य: परीक्षाकष्टात् मुक्तिपूर्वकं परीक्षाया: सम्मुखीकरणं कथं कर्तव्यम् इत्यस्मिन् विषये
सम्मर्शान् अपि प्रदास्यति।

एतद्विषये शिक्षामन्त्रालयेन सामाजिकसञ्जाले एक्स इत्याख्ये “परीक्षा पे चर्चा” कार्यक्रमविषये संस्कृत-भाषायां सन्देशः प्रेषितः अस्ति। अनेन संस्कृतजगति हर्षस्य सञ्चरणं जाजायते। अत्र तस्य संदेशस्य लिंक इति सम्पृक्ति: अपि श्लेष्यते प्रणोद्य दृश्यताम्, प्रसार्यतां, प्रीयताञ्च।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button