दिल्लीसंस्कृताकादमीद्वारा स्वतन्त्रतादिवसमुपलक्ष्य अखिलभारतीयसंस्कृतकविसम्मेलनमनुष्ठितम्
डॉ. युवराजस्य बालसाहित्यपरा रचना भारतस्य समृद्धसांस्कृतिकरिक्थस्य संस्कृतभाषायाश्च महात्तामपि प्रादर्शयत्, येन समेपि उपस्थिता: श्रोतार: मुग्धीभूता: प्रेरिताश्च।
नवदिल्ली। ऐषम: अगस्त-एकादश्यां, दिल्लीसंस्कृताकादम्या स्वतन्त्रतादिवसस्य अष्टसप्ततितमीं वर्षग्रन्थिम् उपलक्ष्य हिन्दी भवनस्य विशाले सभागारे एकं भव्यमखिलभारतीयसंस्कृतकवि सम्मेलनम् आयोजितम्। एतस्मिन् विशिष्टे अवसरे संस्कृतसाहित्यस्य उत्कृष्टकवय: नैजी: नैजी: अनुपम-रचना: संश्राव्य श्रोतृजनानां मनांसि मोहितवन्त:। इमे कवय: आसन् – आचार्य: भागीरथीनन्द:, आचार्य: कृष्णचन्द्र: त्रिपाठी, आचार्य: दयालसिंहपवार:, आचार्य: आशुतोषदयालमाथुर:, डॉ. अञ्जू राणी, डॉ. राजकुमारमिश्र:, डॉ. परमानन्द: झा:, डॉ ऋषिराज: पाठक:, डॉ. सर्वेशकुमारमिश्र:, डॉ. युवराज: भट्टराई च।
अस्मिन् सम्मेलने समस्त देशत: आहत्य उपरिप्रतिपादिता: प्रतिष्ठिता: दश कवय: समाकारिता: आसन्, एतेषु कविषु डॉ. युवराजभट्टराई वर्य: अपि अन्यतमः अवर्तत, साहित्याकादमीयुवपुरस्कारभाजनीभूत: समर्हणीयॊSसौ कवि: दिव्यभावभरितां अद्वितीयामेकां संस्कृतकवितां प्रास्तौत्। एतदीया कविता न केवलं श्रोतृजनान् मंत्रमुग्धान् अकरोत् , प्रत्युत जनेषु विशेषतश्च बालकेषु नौतिकता-स्वतन्त्रता- सामाजिक-मूल्यानां भावना: गहनतया स्पृष्टवान्।
डॉ. युवराजस्य बालसाहित्यपरा रचना भारतस्य समृद्धसांस्कृतिकरिक्थस्य संस्कृतभाषायाश्च महात्तामपि प्रादर्शयत्, येन समेपि उपस्थिता: श्रोतार: मुग्धीभूता: प्रेरिताश्च। एतस्य प्रदर्शनं न केवलम् कवितावाचनमेवासीत्, अपितु एक: अनुभव: आसीत्, येन देशभक्ते: रंगरञ्जित: उत्सव: अतोSपि विशेष: सञ्जातः।
अनेन आयोजनेन इदं सिद्धं यत् संस्कृत भाषायामद्यापि तदेव आकर्षणमस्ति प्रेरणाशक्तिरस्ति, येन संस्कृतवाङ्मयं समस्तस्य भारतीयसाहित्यस्य उपजीव्यत्वं जायते। एतत् कविसम्मेलनं न केवलं स्वतन्त्रतादिवसस्य उत्सव: आसीत्, प्रत्युत भारतीयसंस्कृते: संस्कृतभाषाया: च संवाहकानां सम्मेलनमपि आसीत्।
दिल्लीसंस्कृताकादमीद्वारा आयोजितमिदं कविसम्मेलनं, आराष्ट्रे संस्कृतसाहित्यं नवीनशिखरसानौ प्रापणस्य दिशि एक: महत्वपूर्ण: पदक्षेप: वर्तते। एतन्निभै: आयोजनै: न केवलं नव्यपीठिकाजनैः संस्कृताध्याययनं प्रति प्रेरणा प्राप्यते, अपितु एतद् अस्माकं सांस्कृतिकं रिक्थं सुरक्षितुम् अपि योगदानं ददाति ।