संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनदेहलीनैनीताल

मूलचन्द्रशुक्लः देहल्यां केन्द्रीय- संस्कृतविश्वविद्यालयद्वारा “विद्यावारिधिः” इत्युपाधिना विभूषितः

🔵श्री शुक्लवर्य: वरिष्ठ-सहायकप्राध्यापकसंस्कृत-विषये उत्तराखण्डस्य नैनीतालजनपदस्थ- पी-एन-जी-राजकीय-स्नातकोत्तर- -महाविद्यालय-रामनगरम् इत्यत्र कार्यरतो विद्यते । 🔵शोधोपाधिप्राप्त्यर्थं कार्यस्थलस्य नैकजनैः सह प्राचार्यः प्रो. एम.सी.पाण्डे महोदयः, देशस्य विविधजनैः सह सम्बन्धि-पारिवारिक-ग्रामीणजनाश्च सहर्षं शुभकामनाः प्रेषितवन्तः ।

रामनगरम्/देहरादूनम्। नवदेहलीस्थ-केन्द्रीय-संस्कृत- विश्वविद्यालयद्वारा दीक्षान्तसमारोहे “यशोभूमि-कनवेन्शन-सेण्टर-दिल्ली” इत्यत्र कार्यक्रमस्थले मूलचन्द्रशुक्लाय विद्यावारिधिः(Ph.D.) इत्युपाधिः प्रदत्ता। अत्र मुख्यातिथित्वं महामहिमराष्ट्रपतिना द्रौपदीमुर्मूमहोदयया आध्यक्ष्यं च शिक्षामन्त्रि-भारतसर्वकारेण धर्मेन्द्रप्रधानमहोदयेन आतिथेयश्च कुलपतिना प्रो.श्रीनिवासः वरखेडीमहोदयेन निर्व्यूढः।

डॉ. मूलचन्द्रशुक्लः केन्द्रीय-संस्कृत- विश्वविद्यालयस्य गङ्गानाथझापरिसरप्रयागराजः इत्यस्य निदेशकस्य, प्रो. ललितकुमारत्रिपाठीमहोदयस्य निर्देशने
“समकालिक-1970 तः संस्कृतगीतिकाव्यानां भाषाभावयोर्वैशिष्ट्यानुशीलनम्” इत्यस्मिन् संस्कृतविषये शोधकार्यं पूर्णं कृतवान्। अस्मिन् शोधकार्ये 1970 तः अद्यावधि संस्कृतस्य गीतविधायां लिखित-रचनानां साहित्यव्याकरणयोः दृष्ट्या उभयोः वैशिष्ट्यम् अनुशीलनञ्च बृहद् शोधकार्यं प्रस्तुतम्।

अवबोधयन् वच्मि यत् डॉ. शुक्लः चित्रकूट-जनपदस्य बरगढ-पत्रालयस्य गाहुर-ग्रामस्य च वास्तव्यो वरीवर्ति। अस्य पिता साधूशरणशुक्लः कृषको विद्यते। अस्य त्रिषु पुत्रेषु ज्येष्ठपुत्रः प्रदीपशुक्लः प्राध्यापकः, लघुपुत्रः नरेन्द्रशुक्लः मध्यमपुत्रश्च मूलचन्द्रशुक्लः 2014 तमे वर्षे उत्तराखण्ड-लोक-सेवा-आयोगद्वारा सहायकप्राध्यापकरूपेण संस्कृतपदे चयनितो जातः । वर्तमानसमये वरिष्ठ-सहायकप्राध्यापकसंस्कृत-विषये उत्तराखण्डस्य नैनीतालजनपदस्थ- पी-एन-जी-राजकीय-स्नातकोत्तर- -महाविद्यालय-रामनगरम् इत्यत्र कार्यरतो विद्यते।
अनेन स्वसफलतायाः श्रेयो मातृपितृभ्यां, गुरुजनेभ्यः, भ्रातृभ्यः, भार्यायै चेत्यादिभ्यः प्रदत्तः। पीएचडी इत्युपाधिप्राप्त्यर्थं कार्यस्थलस्य नैकजनैः सह प्राचार्यः प्रो. एम.सी.पाण्डे महोदयः देशस्य विविधजनैः सह सम्बन्धि-पारिवारिक-ग्रामीणजनाश्च सहर्षं शुभकामनाः प्रेषितवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button