देश

सुधामूर्तिः राज्यसभासदस्या अभवत्

नवदिल्ली – ‘इन्फोसिस् फौण्टेषन्’ इत्यस्य अध्यक्षा तथा विख्याता लेखिका च सुधामूर्तिः राज्यसभासदस्यरूपेण राष्ट्रपतिना द्रौपदीमुर्मुणा नामनिर्दिष्टा। ह्यः वनितादिने आसीत् सुधामूर्तेः नूतनः नियुक्तिः।

कन्नटम् आङ्गलभाषयोः ४० अधिकानां ग्रन्थानां कर्त्री सुधामूर्तिः इन्फोसिस् फौण्टेषन्’ इत्यस्य सहस्थापकस्य एन् आर् नारायणमूर्तेः सहधर्मिणी, ब्रिटनस्य प्रधानमन्त्रिणः ऋषि सुनकस्य पत्नीमाता च भवति। स्वास्थ्य-शैक्षिकमण्डलेषु तस्याः योगदानं पुरस्कृत्य २००६ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण गतवर्षे पद्मभूषणपुरस्कारेण च सा समादृता।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button