आन्ध्रप्रदेशदेश

अद्यारभ्य आन्ध्रप्रदेशस्य राजधानी न भविष्यति भाग्यनगरम्।

-जैनमोहित:। भाग्यनगरम् अद्यारभ्य जूनमासस्य द्वितीयदिनाङ्काद् आन्ध्रप्रदेशतैलङ्गराज्ययोः संयुक्ता राजधानी न भविष्यति। इदानीं केवलं तैलङ्गस्य राज्यस्य राजधानी एव भविष्यति।
२०१४ ख्रिष्टाब्दस्य आन्ध्रप्रदेशपुनर्गठनाधिनियमान्तर्गतं भाग्यनगरस्य संयुक्तराजधानीत्वस्य दशवर्षाणाम् अवधिः रविवासरे पूर्णा।

यावत् नूतनराजधानीसम्बन्धे अन्तिमनिर्णयः न भवति तावद् आन्ध्रप्रदेशः भाग्यनगरात् स्वप्रशासनं विधानसभां च सञ्चालयितुं शक्नोति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button