संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डदेशमनोरंजनराजनीतिलाइफस्टाइलविदेशव्यापार

भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:

भारतीय: रक्षासचिव: गिरिधर: अरामाने:, जर्मनरक्षामन्त्रालयस्य च राज्यसचिव: बेनेडिक्ट-जिमर: विगते मंगलवासरे फरवरी-सप्तविंश्यां बर्लिन-नगरे भारत-जर्मनीदेशयो: उच्चरक्षासमिते: मन्त्रणोपवेशनस्य संयुक्ताध्यक्षता विहिता। अत्रान्तरे देशद्वयेनापि कार्यनीतिक-साहमत्यरुपेण रक्षा-सहयोग-संवर्धने बलं प्रदत्तम्।
रक्षामन्त्रालयस्य अनुसारेण गिरिधर: अरमाने: बेनेडिक्ट जिमरश्च क्षेत्रीयस्थितिविषये मन्त्रणां कृतवन्तौ। सम्भावितरक्षा-औद्योगिक-परियोजना-विषयेपि जाता: चर्चा:। अत्रान्तरे उभाभ्यामपि भारत-जर्मनी-रक्षोद्योगेषु साहमत्यं प्रकाशितम्। रक्षामन्त्रालयेन सूचितं यत् इंडो-पैसिफिक् इति हिन्द-प्रशान्त-क्षेत्रे जर्मनीदेशेन साकं संयुक्ताभ्यासविषये चर्चा: विहिता: सहैव सम्भावित-रक्षा-औद्योगिक-परियोजनानां विषये अपि वार्ताचिति: अभूत्। रक्षामन्त्रालयस्य मुख्यप्रवक्ता ए. भारतभूषणबाबू: प्रत्यपादयत् यत् उभयो: देशयो: “सम्बन्धान् सुदृढीकर्त्तुं रक्षासचिव: गिरिधरारामाने: जर्मनीदेशस्य राज्यसचिव:, बेनेडिक्ट् ज़िमर: च बर्लिननगरे भारत-जर्मनीसमुच्चरक्षासमिते: उपवेशनं सफलं प्रतिपादितवन्तौ । द्वितीय-विश्वयुद्धस्य अनन्तरं जर्मनीदेशेन साकं राजनयिक-सम्बन्ध-स्थापकेषु देशेषु प्रथमं भारतमेव अवर्तत। 2021 तमे वर्षे, उभाभ्यां देशाभ्यां राजनयिक-सम्बन्धानां स्थापनाया: सप्ततितमी वर्षग्रन्थि: अपि मानिता ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button