संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डदेहरादूनहरिद्वार

संस्कृतशिक्षामन्त्रिणा डा.धनसिहरावतवर्येण संस्कृतनिदेशक: अकादमीसचिवश्च शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वं सम्मानित:

शिक्षामन्त्री दत्तवान् १०० संस्कृतछात्रेभ्य: चतुःलक्षनवषष्टिसहस्रषट्शतरूप्यकाणां च १७ शोधछात्रेभ्य: षड्लक्षाशीतिसहस्ररूप्यकाणां छात्रवृत्तिसम्मानम्

देहरादूनं। राज्यस्तरीयाधुनिकपुस्तकालये ननूरखेडादेहरादूने उत्तराखण्डसंस्कृताकादमीद्वारा बुधवासरे संस्कृतछात्रवृत्तिसम्मानकार्यक्रम: समायोजितोभवत् । यत्र
संस्कृतछात्रवृत्तिसम्मानसमारोहे संस्कृतनिदेशक: च उत्तराखण्डसंस्कृताकादम्या: सचिव: शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वं उत्तराखण्डस्य संस्कृतशिक्षामन्त्रिणा सम्मानित: अभवत् । श्रीखालीवर्येण अवसरेस्मिन् प्रोक्तं यत् अकादमी च सर्वकार: संस्कृतहिताय संस्कृतप्रचाराय प्रसाराय सततं प्रयत्नं कुरुत: । श्रीखालीवर्येण संस्कृतजगत: धन्यवादं कुर्वन् मन्त्रीमहोदयस्य आभारं प्रकटितं। अकादमीसचिवेन अवगतं कारितं यत् बुधवासरे प्रातः १० वादनात् राज्यस्तरीयाधुनिकपुस्तकालये ननूरखेडादेहरादूने कार्यक्रम: सम्पद्यते। छात्तवृत्तिसम्मानार्थं अकादमी इत्यनेन शोधविद्यार्थिविज्ञापनपत्रे विज्ञापितनियमानुसारं राज्यस्य संस्कृतविषये NET इत्युत्तीर्णानां शोधछात्राणां आवेदनानि आमन्त्रितानि आसन्, यस्य फलस्वरूपं बहवः शोधछात्राः आवेदनं कृतवन्तः आसन्। आवेदनप्राप्तेः निर्धारिततिथ्याः अनन्तरम् , 17 शोधछात्राणां आवेदनपत्राणि शोधछात्रवृत्तिचयनसमित्या स्वीकृतानि। समितिद्वारा चयनितानां छात्राणां तथा राज्यस्य सर्वेषु संस्कृतविद्यालयेषु अध्ययनं कुर्वतां अनुसूचितजाति-जनजाति- छात्राणां कृते छात्रवृत्तिः अकादम्या दीयते ।

अवसरेस्मिन् मुख्यातिथिरूपेण डा.धनसिंहरावत: १०० संस्कृतछात्रेभ्य: चतुःलक्षनवषष्टिसहस्रषट्शतरूप्यकाणां च १७ शोधछात्रेभ्य: षड्लक्षाशीतिसहस्ररूप्यकाणां छात्रवृत्तिसम्मानम् शुभकामनया सह दत्तवान्। संस्कृतेन अध्ययनं कुर्वत्सु अनुसूचितजाति-अनुसूचितजनजाति-वर्गस्य ५२ छात्राः प्रथमतः उच्चमध्यमवर्गपर्यन्तं (वर्ग-८ तः १२) यावत् ४८ बालिकाछात्राः माध्यमिकसंस्कृतविद्यालयेषु च राज्ये आहत्य १०० छात्राः – चतुःलक्षं नवषष्टिसहस्रषट्शतरूप्यकाणां छात्रवृत्त्या सह राज्यस्य उच्चशिक्षासंस्थासु पञ्जीकृतानां संस्कृतविषयेषु आहत्य १७ शोधछात्राणां कृते नेट् इत्यस्यां परीक्षायां सर्वाधिकम् अंकं प्राप्तुम् षड्लक्षाशीतिसहस्ररूप्यकाणि वार्षिकछात्रवृत्तिः मुख्यातिथिना प्रदत्ता । अकादम्याः कोषाध्यक्षः सत्येन्द्रप्रसादडबरालः समागतानाम् धन्यवादं विहितवान् । अकादम्या: शोधाधिकारी श्री हरीशगुरुरानी च प्रकाशनाधिकारी किशोरीलालरतूडी एवं च गणमान्या: विद्वांश: सम्मानसमारोहस्य शोभां वर्धितवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button