संस्कृतसाधकानां सज्जीकरणार्थं उत्तरप्रदेशसंस्कृतसंस्थानेन आयोजितं दशदिनात्मकं आवासीयं शिक्षार्थिप्रशिक्षणं सफलतया सम्पन्नम् ।
शैक्षिकमार्गदर्शनस्य अधिगमकौशलविकासस्य च दिशि सार्थकः प्रयासः - जगदानन्दझाः

संस्कृतभाषायाः प्रचार–प्रसारं, शिक्षणकौशलविकासं च लक्ष्यीकृत्य उत्तरप्रदेशसंस्कृतसंस्थानेन संस्थानपरिसरे संस्कृतमये वातावरणे आवासीयं दशदिनात्मकं सरलसंस्कृतभाषाशिक्षार्थिप्रशिक्षणम् आयोज्य सफलतया सम्पन्नम्। प्रशिक्षणस्य शुभारम्भे शिक्षाविदां, प्रशासनिकाधिकारिणां तथा शिक्षार्थिनां गरिमामयी सहभागिता दृष्टिगोचरा अभवत्।

अस्मिन् अवसरे प्रशासनिकाधिकारी डॉ. जगदानन्दझा स्ववक्तव्ये संस्कृतभाषायाः समकालीनोपयोगितां, तस्याः संरक्षण–संवर्धनयोः अनिवार्यतां च विशेषतया प्रतिपादितवान्। सः अवदत्—संस्कृतभाषायाः प्रासङ्गिकतां स्थापयितुं संस्कृतसम्बद्धाः सर्वे जनाः उत्तरदायिनः सन्ति। समाजात् अपेक्षा कर्तुं पूर्वं स्वयमेव पूर्णतां साधयितुं आवश्यकम्, एष एव अस्य प्रशिक्षणस्य मूलोद्देश्यः। प्रशिक्षणस्य मुख्यशिक्षकः धीरजमैठाणी शिक्षार्थिनां आत्मविश्वासवर्धनं, अभिव्यक्तिशक्तिविकासं, अध्ययनदक्षतावृद्धिं च अनेन उपक्रमेण साध्यते इति अवदत्। सः स्पष्टयामास यत् संस्कृतग्रन्थाध्ययने छात्रैः अनुभूयमाना क्लिष्टता भाषाज्ञानविकासेन एव निवारणीया, अत एव एतादृशं प्रशिक्षणम् अत्यन्तोपयोगि भवति।

कार्यक्रमस्य अन्ते प्रशिक्षणाधिकारी प्रधानसहायकः श्रीभगवानसिंहचौहानः धन्यवादज्ञापनं कृत्वा प्रशिक्षार्थिभ्यः आह्वानं कृतवान् यत् ते स्वस्तरे संस्कृतभाषायाः प्रचारप्रसारं कुर्वन्तु तथा स्वप्रेरणया अन्यान् अपि प्रेरयेयुः। कार्यक्रमस्य आरम्भः सवितामौर्यया संस्थानगीतिका पाठेन कृतः। अस्मिन् अवसरे शिक्षार्थिभिः—अभिषेकः, शिवा, अनुपमः, रोहितः, रानी, शालिनी, शिवानी तथा अनुपममित्रः (अभिषेकः)—इत्येतैः “संस्कृतज्वरः” नामकं नाटकं उत्साहपूर्वकं मंचितम्, यत् दर्शकानां विशेषं आकर्षणं प्राप्तवान्।

स्वागतभाषणं डॉ. अनिलगौतमेन कृतम्। प्रास्ताविकवक्तव्ये प्रशिक्षिका राधाशर्मा प्रशिक्षणस्य विस्तृतं इतिवृत्तं प्रस्तुतवती। शिक्षार्थिनः अपि स्वानुभवं उक्त्वा अवदन् यत् एतादृशं आवासीयप्रशिक्षणं संस्कृतभाषायां नवां दृष्टिं, नवां प्रेरणां च जनयति। समापनसत्रस्य सञ्चालनं विपिनपाण्डेयेन कृतम्। सांस्कृतिकप्रस्तुतिषु शिखामिश्रया वसन्तगीतं, अजयत्रिपाठिना मङ्गलाचरणं, आकाङ्क्षाचौहानेन गीतिका, अग्रिमाशुक्लया अभिनयगीतं, शाम्भव्या अनुभवकथनं तथा ओमप्रकाशमिश्रेण अनिलद्विवेदिना च प्रस्तुतीकरणं कृतम्। समापनं प्रशिक्षार्थिन्या नन्दिन्या शान्तिमन्त्रपाठेन कृतम् ।







