संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

उत्तरप्रदेशसंस्कृतसंस्थानेआवासीय-सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्गस्य समापनकार्यक्रम: सम्पन्न:

वार्ताहर:-सचिनशर्मा,उ.प्र.।उत्तरप्रदेशसंस्कृतसंस्थाने आवासीय-सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्गस्य समापनकार्यक्रम: सम्पन्न: । कार्यक्रमस्य आरम्भे दीपप्रज्ज्वलनम् अभवत्। तत्र आकाश: आदित्य: करुणेश: च मन्त्रम् उक्तवन्तः ।
तपोभूमि: गुरूकुलस्य वटुकाः वैदिकमङ्गलाचरणं कृतवन्तः। सरस्वतीवन्दनां श्रेया सीमा च कृतवती। तदनन्तरं श्रेया सीमा शीला च संस्थानगीतिकां गीतवत्य: । योजनासमन्वयक: राधाशर्ममहोदया सर्वेषाम् अतिथिनां परिचयं कारितवती।
कार्यक्रमेSस्मिन् मुख्यातिथिरूपेण संस्थानस्य निदेशक: विनय श्रीवास्तववर्य: , लखनऊ विश्वविद्यालयस्य प्रो. ओमप्रकाशपाण्डेय: , प्रो. उमारानी , डॉ. रेखाशुक्ला, प्रो. अभिमन्यु: , डॉ.गौरव: इत्यादय: उपस्थिताः आसन् ।
संस्थानस्य प्रशासनिक-अधिकारी जगदानन्दझावर्येण उत्तरप्रदेशसंस्कृतसंस्थानस्य परिचय: कारित: ।
गीतावशिष्ठमहोदया वर्गस्य स्वस्य अनुभवम् उक्तवती । पुनीतमहोदयेन संस्कृतेन ” आत्मा अलङ्करणीयः न तु शरीरम् ” इति नाम्ना एका प्रेरणाकथा उक्ता ।
प्रो.ओमप्रकाशपाण्डेयमहोदयेन उक्तं यत् संस्कृतं समाजस्य भाषा वर्तते । इदं संस्थानं सर्वत्र संस्कृतं प्रसारयति।
प्रो.अभिमन्युमहोदयेन बोधितम् यत् संस्कृते सर्वं निहितं वर्तते। देशस्य समाजस्य च विकास: तदैव भवितुम् अर्हति यदा वयं संस्कृतेन आचराम: ।
प्रो.उमारानी त्रिपाठीवर्या उक्तवती यत् एषा “गृहे गृहे संस्कृतम्” योजना संस्कृतेन सम्भाषणं कर्तुं सर्वान् प्रेरयति ।
डॉ.गौरवसिंहवर्य: संस्कृतस्य उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिता च अस्या: योजनाया: प्रशंसाम् अकरोत् उक्तवान् च एषा योजना निरन्तरं चलेत् । रेखाशुक्लामहोदया अपि संस्कृतस्य विशेषताम् उक्तवती ।
कार्यक्रमेSस्मिन् काश्चित् बालिका: संस्कृतेन नाटकम् अपि कृतवत्य: ।
वर्गेSस्मिन् प्रशिक्षणप्रमुख: सुधिष्ठमिश्र: , धीरजमैठाणी, दिव्यरञ्जन: , राधाशर्मा , अनिलगौतमः च इतोSपि अन्ये शिक्षका: सचिनशर्मा, डॉ.स्तुतिगोस्वामी , डॉ. श्वेताबरनवाल: , धनञ्जय: , विमलेश: च प्रशिक्षणं दत्तवन्तः।
सम्पूर्णवर्गे ये जनाः प्रशिक्षणं प्राप्तवन्तः। ते आहत्य ५२ जना: सन्ति। २७ पुरुषा: २५ महिलाः च एते सर्वेSपि इत: प्रशिक्षणं प्राप्य अन्यान् छात्रान् पाठयिष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button