शशिकान्तवर्य: संस्कृतभाषाशिक्षणकक्षां प्रारब्धवान्

उत्तरप्रदेशस्य संस्कृतसंस्थाने प्रतिमासं २० दिवसीयं संस्कृतसम्भाषणकक्षा प्रचलति, यत्र भारतात् विदेशेषु च सहस्रजनाः संस्कृतसम्भाषणं शिक्षित्वा लाभान्विताः भवन्ति। विगतचतुर्वर्षेभ्यः उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतप्रेमिणां कृते प्रतिमासं प्रातः ८ वादनतः रात्रौ ९ वादनपर्यन्तं ऑनलाइन संस्कृतभाषाशिक्षणकक्षाः प्रचलन्ति। अस्मिन् क्रमे २०२४ तमस्य वर्षस्य सितम्बरमासस्य कक्षा ५ दिनाङ्कात् आरब्धा । राज्यस्य विभिन्नजनपदेभ्यः प्रशिक्षकाः ऑनलाइन कक्षाः चालयन्ति। गाजियाबाद जनपदस्य शशिकान्त महोदयः अपि संस्कृतभाषाशिक्षणकक्षां प्रारब्धवान् । प्रथमदिने संस्कृतभाषायां वर्णमाला प्रथमतया प्रवर्तिता तथा च यथा अस्य पाठ्यक्रमस्य विशेषता, प्रतिदिनं संस्कृते नूतनविषयेण सह सम्बद्धतां प्राप्तुं अवसरं प्राप्नुमः, तथैव सर्वे छात्राः नित्यं संस्कृतस्य नूतनसूक्ष्मतां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य वरिष्ठाधिकारिभिः नियन्त्रिताः भवन्ति । संस्थान निदेशक विनय श्रीवास्तवः, भगवानसिंहः, शिक्षण प्रमुख सुधिष्ठ कुमार मिश्र:, कक्षा समन्वयक धीरज मेठाणी, दिव्यरंजन:, राधाशर्मा एभिः जनैः कक्षा: निरीक्ष्य प्रशिक्षूणां प्रशिक्षकाणाञ्च मार्गदर्शनं कृतम्। एताः संस्कृतभाषाशिक्षणकक्षा: प्रतिमासं प्रचलन्ति। यस्मिन् राज्यस्य योग्यैः कुशलैः प्रशिक्षकैः छात्राणां कृते सम्भाषणं पाठ्यते। अस्मिन् कस्यचन वयसः काचन व्यक्तिः कश्चन छात्रः वा भागं ग्रहीतुं शक्नोति । एताः कक्षाः सर्वथा निःशुल्काः सन्ति। उत्तरप्रदेशसंस्कृतसंस्थानस्य जालपुटे पञ्जीकरणं कृत्वा स्वसुविधानुसारं समयं चयनं कर्तुं शक्नुवन्ति। कक्षायाः अन्ते परीक्षा भवति, उत्तीर्णछात्रेभ्यः च प्रमाणपत्रं दीयते ।







