उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

प्रतिभा: अग्रे गन्तुं प्रेरयन्ति —- ” वीरेन्द्ररावत:

🔵संस्कृतिः, सार्थककण्डवालः, संतोषी, शुभमरावतः, सोनिया ध्यानी, स्वर्णपदकेन समलंकृता🔵। 🔵पौडीजनपदस्य चतुर्थयोगासनक्रीडाप्रतियोगिता जानकीनगरे सम्पन्ना🔵

।कोटद्वारं। पौडीजनपदस्य चतुर्थयोगासनक्रीडाप्रतियोगिता 2024-25 वर्षस्य आयोजनं 8 सितम्बर् दिनांके सरस्वतीशिशुमंदिरे/विद्यामंदिरे “इण्टर-कॉलेज”- जानकीनगरे सम्पन्न: अभूत। कार्यक्रमे प्रतियोगितासंयोजक: राकेशकण्डवाल:, जनपदसंयोजक: भुवनेश्वरप्रसादबगासी एवं स्थलसमन्वयक: श्री मनोजकुमारकुकरेती एवं सह-स्थल समन्वयक: प्रदीपनौटियाल: एवं योग-एवं-विज्ञान-विभागाध्यक्ष: डॉ. श्री गुरुरामरायविश्वविद्यालयदेहरादूनं एवं च कुलदीपमैन्दोला अभिभावका: एवं निर्णायका: उपस्थिता: आसन् ।

दीर्घान्तरालस्य अनन्तरं कोटद्वारस्य पौडीजनपदेन एतादृशः कार्यक्रमः आयोजितः, देवीसरस्वत्या: सम्मुखे दीपं प्रज्ज्वाल्य कार्यक्रमस्य आरम्भः अभवत् । अवसरेस्मिन् अक्षतसिंह: गायत्रीमन्त्रस्य वेणुनादं प्रस्तुतं कृतवान् तथा “ई-टेक्नोमाइण्ड्” इत्यस्या: संस्थाप्रतिभागिभि: योगप्रस्तुति: प्रदत्ता।

अस्मिन् अवसरे मनोजकुमार: कुकरेती अवदत् यत् योगः अस्माकं भारतस्य गौरवम् अस्ति, यत् अद्य समस्तविश्वेन स्वीक्रियते । एतेन सह देहरादूनस्य योगविज्ञानविभागस्य गुरुरामरायविश्वविद्यालयस्य च प्रमुखः डा.सुरेन्द्रप्रसादरयाल: छात्रेषु बहुप्रतिभा भवति एतेन माध्यमेन सा प्रतिभा बहिरायाति । प्रतिभागिभिः एतत् योगं आश्चर्यजनकं ज्ञातम्। क्रीडासंयोजकः राकेशकन्डवालः समस्तयोगप्रतियोगितानां प्रतिनिधित्वेन छात्राणां सम्भागस्य कृते अभिनन्दनम् अकरोत्। कार्यक्रमस्य संचालनं कुलदीपमैन्दोला कृतवान् । अवसरेत्र अभिषेककण्डवाल:, संदीपसिंह:, महेशसेमवाल:, सोनमरावत:, सोनिया ध्यानी निर्णायकभूमिकायां विशेषयोगदानं दत्तवन्त: ।

कार्यक्रमे सहभागिनां मनोबलं वर्धयितुं आगतः सिद्धबलीमन्दिरस्य सचिवः, भाजपायाः व्यापारप्रकोष्ठाधिकारी च राजदीपमाहेश्वरी महोदयः अवदत् यत् भारतस्य योगः वैश्विकस्तरस्य रूपं गृहीतवान्, अस्माभिः उत्तमजीवनं प्रति गन्तुं तस्य उपयोगः करणीयः । बबितासिंहः, किरणडोबरियालः, गुड्डी उनियालः अपि कार्यक्रमे सर्वान् सम्बोधितवत्य:।

प्रतियोगितायाः समापनस्य अवसरे भाजपा जिलाध्यक्षः वीरेन्द्र: रावतः पुरस्कारं स्मृतिचिह्नं च दातुं मुख्यातिथिरूपेण समायात: स: सर्वप्रतिभागिभ्यः पुरस्कारैः सम्मानितवान् तथा च तेन सह उक्तवान् यत् प्रतिभाः जीवने अग्रे गन्तुं प्रेरयन्ति तथा च योगमाध्यमेन वयं शरीरं मनः च स्वस्थं स्थापयितुं शक्नुमः यतोहि स्वस्थं मनः स्वस्थशरीरे निवसति।

योगप्रतिस्पर्धायाम् अत्र १०-१४ आयुवर्गे संस्कृतिः स्वर्णपदकं, सौम्या रजतपदकं, अञ्जलिः कांस्यपदकं च प्राप्तवत्य: । एतेन सह १४ आयुर्मध्ये सार्थककण्डवालः स्वर्णपदकं प्राप्तवान् १८ आयुवर्गे संतोषी स्वर्णपदकं, मेघा रजतपदकं, यशिका कांस्यपदकं च प्राप्तवत्य: । शुभमरावतः २८ आयुवर्गे स्पर्धायां स्वर्णपदकं प्राप्तवान् । ४५ आयुवर्गे मध्ये सोनिया ध्यानी स्वर्णपदकं, दीप्तिगुसैं रजतपदकं, प्रीतिद्विवेदी कांस्यपदकं च प्राप्तवत्य: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button