संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

संस्कृतभारत्याः पंजाबप्रान्तस्य त्रिषु विधानसभाक्षेत्रेषु जातः संस्कृतप्रसाराय प्रवासः

त्रिषु विधानसभाक्षेत्रेषु जातः संस्कृतप्रसाराय प्रवासः
दिनाङ्के 9/9/24 संस्कृतभारत्याः पंजाबप्रान्तस्य अधिकारीणां प्रवासः जातः, प्रवासेस्मिन् संस्कृतभारत्याः प्रान्तसह-मन्त्रिणा अजय-आर्येण, पटियाला-विभाग सह-संयोजकेन ओमनदीपशर्मणा च, उभाभ्यां सम्मिल्य पटियाला-समाना-लहरागागानामकेषु विधानसभाक्षेत्रेषु संस्कृतानुरागिभिः सह संस्कृतप्रचारप्रसाराय संस्कृतभारत्याः संगठनविस्ताराय च चर्चा कृता ।
जनैः सह विचारक्रमेण लहरागागानगरस्य (संगरूरजनपद्) नगरटोलीनिर्माणं, पातड़ानगरे संयोजकस्य स्थापनं, समानानगरे ब्राह्मणसभामाध्यमेन संस्कृतभारत्याः परिचयश्च जातम्।
लहरागागानगरस्य संस्कृतभारत्याः अध्यक्षरूपेण श्रीमद्दीपचन्दवर्यं, मन्त्रीरूपेण श्रीमद्प्रवीणं, गीताशिक्षणकेन्द्रप्रमुखरूपेण श्रीशिवकुमारं,सम्पर्कप्रमुखरूपेण के.पी. शर्माणं, व्यवस्थाप्रमुख-रूपेण मनदीपशर्माणं नियोजितम् । संस्कृतप्रचारस्य कार्यं शीघ्रमारभतुं सह-मन्त्रिणः प्रबोधनमपि जातम्।
अस्मिनैव क्रमे पातड़ांनगरे संस्कृतभारत्याः कार्यसम्वर्धनाय श्रीमान् रिकुं-शास्त्रीं नगरसंयोजकरूपेण प्रतिष्ठापितम् । पुनः समाना नगरे ब्राह्मणसभायामायोजिते कार्यक्रमे समनानगरस्य विविधजनैः सह संस्कृतप्रचार-प्रसारकार्याय चार्चा जाता ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button