मानवजीवनस्य आधारभूत -ग्रन्थः-“श्रीमद्भभगवद्गीता”—- “डा.वीरेंद्रकुमार:”
पंजाब। पटियालानगरस्य शिवमन्दिरे संस्कृतभारत्याः आयोजितस्य गीताशिक्षणंकेन्द्रस्युद्घाटनमभवत्। कार्यक्रमे अस्मिन् पटियालाजनपदस्य विविधेभ्यः नगरेभ्यः जनाः संप्राप्ताः। अस्मिन् कार्यक्रमे मुख्यवक्तारुपेण संस्कृतभारत्याः पंजाबप्रान्तस्याध्यक्षः श्रीमान् डा. वीरेंद्रकुमारमहोदयेन श्रीगीताविषये चर्चां कुर्वनुक्तम् यत् , श्रीगीता मानवजीवनस्याधारभूतग्रन्थः अस्ति अत्र वर्णितैः ज्ञानयोग-भक्तियोग-कर्मयोगादि साधनैः मनुष्यः इह संसारस्य परलोकस्य च विविधेभ्य कष्टेभ्यः मुक्तिं प्राप्तुम् शक्नोति। कार्यक्रमे विभागसहसयोजकेन डा ओमनदीपशर्मणा श्रीमद्भागवतगीतायाः श्लोकोच्चारण विधिं वर्णयन श्लोकोच्चारण अभ्यासश्च कारितः । अस्य कार्यक्रमस्य सूत्रधारः छज्जुराममित्तलः समुपस्थितः आसीत्। कार्यक्रम व्याजेन एव संस्कृतभारत्याः प्रान्तसहमन्त्री अजयकुमारार्येण संघटनविस्तारं कुर्तुं अध्यक्षमहोदयःनिवेदितः घोषणां कुर्वन् प्रान्ताध्यक्षमहोदेयन पटियालाजनपदुपाध्यक्षरुपेण आचार्यः गुरुदासः , पटियालानगरसंपर्कप्रमुखरुपेण छज्जूराममित्तलः ,नगरगीताशिक्षणकेंद्रप्रमुखरुपेण मक्खनसिंगलाःरेणुजैनः नियोजिता । कार्यक्रमस्यमंचसंचालनं डॉक्टर रविदत्तकौशिकमहोदयेन कृतम् । कार्यक्रमे प्रसादव्यवस्था गुप्तापरिवारेणकृता । कार्यक्रमे पटियालाजनपदाध्यक्षः आचार्यः निगमस्वरूपः पटियालाविस्तारकः मनीषः नरेंद्रः, रविप्रकाशः ,देवेंद्रशुक्लाः, बिंदुः, शशिबस्सी, आरकेकपूर, अरुणकुमारः, मोनिकागुप्ता, कपिलगुप्ता, डॉक्टररामनिवासः।