वैश्विकस्तरे संस्कृतं जनभाषां कर्तुं हरिद्वारे भविष्यति संस्कृतभारत्या: वैचारिकमन्थनं
💦संस्कृतेन देशस्य च विश्वस्य कल्याणाय चिन्तनस्य पंचमचरणे प्रयासरता संस्कृतभारती🔵। 💦संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति🔵। 💦14,15,16, सितम्बरमासे श्रीव्यासमन्दिरे गीताकुटीरसमीपे, हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी 🔵। 💦संस्कृतकार्याय कार्यकर्तृभि: स्वीकृत: दृढसंकल्प:🔵। 💦संगोष्ठ्या: सम्मेलने भविष्यति संस्कृतप्रदर्शनी प्रभावी🔵। 💦संगोष्ठ्यां भविष्ययोजनाविषये विभिन्नचर्चा: भविष्यन्ति🔵। 💦संस्कृतभारत्याः १९८१ वर्षत: कार्यं अद्यावधिपर्यन्तम् निरन्तरं संजायते🔵। 💦संस्कृतभारत्या: ४३ वर्षत: निरन्तरं सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति🔵। 💦विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं वक्ष्यन्ति🔵। 💦देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति🔵। 💦संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां भविष्यन्ति सम्मिलिता:🔵। 💦संगोष्ठीसज्जतायै कार्यकर्तृणां कटिबद्धकार्यं शीर्षस्तरे संजायते🔵। 💦संस्कृतभारत्या: विभिन्नदायित्वे विभागा: आवंटिता:🔵।
💦हरिद्वारं💦। संस्कृतेन सम्भाषणं करणीयम् इत्यनेन संकल्पेन सहैव संस्कृतभारत्याः १९८१ तमे वर्षे कार्यं प्रारभत् । तथा च ४३ वर्षत: अस्या: कार्यं अद्यावधिपर्यन्तम् निरन्तरं संजायते । संस्कृतभारती समाजस्य सहकारेण पूर्णतया चालिता असर्वकारीया संस्था अस्ति । सम्प्रति सम्पूर्णभारतसहितविश्वस्य २७ देशेषु संस्कृतस्य पुनर्स्थापनार्थं निरन्तरप्रयत्नाः क्रियन्ते । संस्थायाः चालितस्य लक्षशः सम्भाषणशिबिरस्य अभियानस्य माध्यमेन कोटिशः जनाः संस्कृतभाषायां वदन्ति, ०६ ग्रामेषु संस्कृतभाषायां वार्तालापः आरब्धः अस्ति।
प्रथमचरणे १० वर्षेषु संस्कृतसंभाषणशिबिरद्वारा लक्षशः जना: प्रशिक्षणेन संस्कृतभाषायां वार्तालापं कर्तुं समर्थाः अभवन् । द्वितीयचरणे संस्कृतभारतीसङ्गठनस्य कार्यं वर्धमानम् अभवत् । तृतीयचरणे कार्यकर्तृनिर्माणं एवं च चतुर्थचरणे संस्कृतभाषां जनसामान्यं प्रति नेतुम् संभाषण-आन्दोलनम् संचालितम् । अधुना वयं पञ्चमे चरणे देशविश्वहिताय चिन्तने स्मः। भारतस्य कृते एष: काल: सुवर्णकालः वर्तते, समयोयम् अधुना संस्कृतभाषायाः विकासस्य पुनरुत्थानस्य च अस्ति । अतः सर्वे कार्यकर्तार: देशहिताय विश्वहिताय च संस्कृताय कार्यं कुर्वन्त: सन्ति।
संस्कृतविषये जनजागरूकतां संस्कृतकार्यविस्तारं च दृष्ट्वा संस्कृतभारती देवभूमौ उत्तराखण्डे पवित्रमातृगङ्गायाः तटे अखिलभारतीयगोष्ठीम् आयोजयति, यस्मिन् विभिन्नेभ्यः स्थानेभ्य: स्थानीयविद्वांसः, कार्यकर्तारः, अखिलभारतीयाधिकारिणः च प्रायः 1000 जनाः देशस्य विभिन्नराज्येभ्य: भागं गृह्णन्ति । गोष्ठीम् सफलं कर्तुं संस्कृतभारत्याः अपि अस्मिन् दिव्यकार्ये शरीरेण, मनसा, धनेन च आवश्यकं जनसहकार्यं याचितवान् अस्ति। अपि च संस्कृतभाषायाः वैभववर्धनार्थं समस्तपरिवारजनै: च स्वनिकटमित्रैः सह उपस्थितं भूत्वा भागं गृह्णीयुः इति सादरं निवेदितम्।
अस्मिन् अवसरे संस्कृतभारती विज्ञानप्रदर्शनस्य उद्घाटनं करिष्यति तथा च वस्तुसाहित्यादिप्रदर्शनं करिष्यति अखिलभारतीयगोष्ठ्याः उद्घाटनं १४ सितम्बर २०२४ दिनाङ्के प्रातः ९:३० वादने श्रीव्यासमन्दिरनिकटे गीताकुटीरहरिपुरकला- हरिद्वारे भविष्यति। यत्र संस्कृतभारत्या: प्रयासरतकार्याणां गतवर्षस्य समीक्षा भविष्यति। अत्र संस्कृतेन एव प्रातः रात्रौ यावत् कार्यं करिष्यते। द्वितीयदिवसे आगामीक्रियमाणकार्याणां विचार योजना प्रचलिष्यति । संस्कृतगोष्ठी 16 सेप्टेम्बर् 2024, सायं 5:00 वादने समाप्तं भविष्यति। अत्र विशेषबलं संस्कृतभाषा जनजनभाषां कर्तुं सर्वत्र संस्कृतवर्जन इति अवतर्तुं च राष्ट्रभाषा संस्कृतं कर्तुं च संस्कृतेन भारतं विश्वगुरुं कर्तुं , विश्वे शान्तिं , कल्याणं कर्तुं विश्वपर्यन्तं संस्कृतं प्रापयितुं हरिद्वारे विदुषां संगोष्ठ्यां वैचारिकमन्थनं प्रचलिष्यति।
उत्तराखण्डस्य विभिन्नजनपदस्तरे खण्डस्तरे स्थाने च व्यवस्थाविषये आवश्यकसंगोष्ठी धनविषये अपि सम्पादिता ।
संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति। विदुषां संगोष्ठी 14,15,16, सितम्बरमासे श्रीव्यासमन्दिरे गीताकुटीरसमीपे, हरिपुरकलाहरिद्वारे सम्पत्स्यते । संगोष्ठ्या: कृते संस्कृतकार्याय कार्यकर्तृभि: : दृढसंकल्प: स्वीकृत: च अत्र संगोष्ठ्या: सम्मेलने भविष्यति संस्कृतप्रदर्शनी प्रभावी भविष्यतिसहैव संगोष्ठ्यां भविष्ययोजनाविषये विभिन्नचर्चा: भविष्यन्ति ।
संस्कृतभारत्याः १९८१ वर्षत: कार्यं अद्यावधिपर्यन्तम् निरन्तरं जायमानं कार्यं अग्रे अग्रे पुन: वर्धयिष्यते । संस्कृतभारत्या: ४३ निरन्तरं सम्भाषणान्दोलनेन जना: संस्कृतेन अत्रापि सम्भाषणविषयेपि मन्थनं करिष्यन्ति। अस्यां संगोष्ठ्यां विभिन्न राज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं वक्ष्यन्ति । सहैव देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिणश्च सम्मेलने प्रतिभागं करिष्यन्ति । संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां सम्मिलिता: भविष्यन्ति । कार्यकर्तृणां संगोष्ठीसज्जतायै कटिबद्धकार्यं शीर्षस्तरे संजायते । अथ च सर्वविधकार्यं सम्पादयितुं संस्कृतभारत्या: विभिन्नदायित्वे विभागा: आवंटिता: अभवन्।