श्रीशदेवपुजारीवर्येण संस्कृतसन्दर्भे प्रेसवार्ता सम्बोधिता।
🔵 संस्कृतभारत्या: अखिलभारतीयगोष्ठ्या: पूर्वम् अभवत् प्रेसवार्ता। 🔵 40 प्रान्तानां 12 क्षेत्राणां विभागै: सह भविष्यति गोष्ठ्यां वैचारिकमन्थनं । 🔵 गोष्ठ्यां समाजस्य सर्वेषां वर्गाणां प्रतिनिधित्वं भविष्यति।
हरिद्वारं। शुक्रवासरे २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के अपराह्णे ३ वादने उत्तर-हरिद्वार-नगरस्य व्यास-मन्दिर-आश्रमे संस्कृतभारती-उत्तरांचल-द्वारा आयोजिताया: अखिलभारतीय-गोष्ठ्याः त्रिदिवसीय-कार्यक्रमस्य विषये पत्रकारसम्मेलनं कृतम् । यत्र अखिलभारतीयप्रचारप्रमुख: श्रीशदेवपुजारीवर्य: एवं प्रदेशाध्यक्षसंस्कृतभारती-उत्तरांचलत: डॉ. जानकीत्रिपाठी च प्रान्तमंत्री गिरीशतिवारी उपस्थिता: आसन् ।
श्रीशदेवपुजारीवर्य: पत्रकारान् सम्बोधयन् वर्तमानसन्दर्भे संस्कृतपरम्परायाः सामान्यजनस्य वाच्यभाषा कथं करणीया विषयेस्मिन् विस्तरेण चर्चितवान् । सः अवदत् यत् संस्कृतं केवलम् एकस्य भाषा न अपितु सामाजिकभाषा अस्ति यस्याः कार्यं समाजाय संस्कृतस्य शिक्षणार्थं बृहत्प्रमाणेन कार्यं करणं भवति। यस्य कार्यक्षेत्रं न केवलं देशस्य अन्तः अपितु भारतात् बहिः २६ देशेषु अपि अस्ति। देशस्य अन्तः संस्कृतभारतीसङ्गठनस्य कार्यं वर्षे द्विवारं राष्ट्रियस्तरे आयोज्यते । यस्य आयोजनं संस्कृतभारत्या: १२ क्षेत्राणां गोष्ठीरूपेण भवितुं गच्छति।
तै: उक्तं यत् संगोष्ठ्याः महत्त्वपूर्णं वस्तु अस्ति यत् सम्पूर्णः कार्यक्रमः सम्पूर्णतया संस्कृतेन एव आयोजितः भविष्यति तथा च अस्मिन् कार्यक्रमे न केवलं संस्कृतसम्बद्धाः जनाः अपितु समाजस्य सर्वेषां वर्गाणां प्रतिनिधित्वं भविष्यति । एतत् साक्षात्कर्तुं समाजं तस्य प्रयोगं सम्भाषणरूपेण कर्तुं प्रोत्साहयितव्यं भवति । संस्कृतभारत्या: अखिलभारतीयगोष्ठ्या: प्रेसवार्ताया: संचालनं प्रान्तमन्त्रिणा श्रीगिरीशतिवारीवर्येण कृतं। वक्तव्यम् अस्ति यत् अखिलभारतीयसंस्कृतगोष्ठ्याः उद्घाटनं उत्तराखण्डस्य माननीयमुख्यमन्त्रीश्रीपुष्करसिंहधामीद्वारा १५ सितम्बरदिनाङ्के भविष्यति ।