उत्तराखण्डसंस्कृत भारती

पिथौरागढे प्रान्तस्तरीयः प्रबोधनवर्गः सम्पन्नः

संस्कृतं भारतीय-सभ्यतायाः आत्मा , संरक्षण-संवर्धनार्थं समाजस्य प्रत्येकवर्गस्य सहभागिता अपेक्षिता - "नगरमहापौर कल्पनादेवलालवर्या"

पिथौरागढम्— संस्कृतभारत्युत्तराञ्चलद्वारा पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीयः प्रबोधनवर्गः सफलतया सम्पन्नः। कार्यक्रमस्य शुभारम्भः माननीयैः जिला-पञ्चायताध्यक्षेण श्रीजितेन्द्रप्रसादेन, जिलाधिकारिणा आशीषभटगैंद्वारा नगर-निगम-महापौरवर्यया श्रीमतीकल्पनादेवलालया च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा समापनसमारम्भ: कृतः।

अवसरेऽस्मिन् उपस्थितान् प्रतिभागिनः सम्बोधयन् जिलाधिकारी श्री आशीषभटगैंमहोदयः संस्कृतभाषायामेव स्वीयस्य उद्बोधनस्य आरम्भं कृतवान्। तेनोक्तं यत् संस्कृतं केवलं भाषा नास्ति, अपि तु भारतीय-संस्कृतेः, ज्ञानस्य, मूल्यपरम्पराणां च संवाहिका अस्ति। एते प्रबोधनवर्गाः यूनां मध्ये सांस्कृतिक-चेतनां जागरयन्ति, समाजाय च वैचारिकीं दिशां प्रददति। संस्कृतात् एव विज्ञानस्य उत्पत्तिः अभवत्, पाश्चात्यदेशेषु अपि संस्कृतस्य अध्ययन-अनुकरणयोः प्रवृत्तिः दृश्यते। शून्य-दशमलवयोः आविष्कारस्य जननी अपि संस्कृतैव इति तेन प्रतिपादितम्।

माननीयः जिला-पञ्चायताध्यक्षः श्री जितेन्द्रप्रसादः संस्कृतभारत्या क्रियमाणानां प्रयासानां प्रशंसां कृत्वा अवदत्— संस्कृतमाध्यमेन राष्ट्रनिर्माणस्य महत्त्वपूर्णं कार्यं क्रियते। नगर-निगम-महापौर्वर्यया श्रीमतीकल्पनादेवलालया च उक्तं यत् संस्कृतं भारतीय-सभ्यतायाः आत्मा अस्ति , तस्य संरक्षण-संवर्धनार्थं समाजस्य प्रत्येकवर्गस्य सहभागिता अपेक्षिता। एतादृशानां कार्यक्रमाणां निरन्तर-आयोजनस्य आवश्यकता इति सा बलं दत्तवती।

कार्यक्रमे प्रान्तस्य विविधेभ्यः भागेभ्यः आगतानां प्रतिभागिनां अनुभव-विनिमयः अभवत्, संस्कृत-प्रचार-प्रसारार्थं च दृढः संकल्पः कृतः। समापनावसरे आयोजकैः अतिथीनां स्मृतिचिह्न-प्रदानपूर्वकं सम्मानः कृतः ।

संस्कृतभारत्युत्तराञ्चलस्य प्रान्त-संघटन-मन्त्री श्री गौरवशास्त्री अवदत्— संस्कृतं केवलं भाषा न, अपि तु भारतीय-सभ्यतायाः आत्मा अस्ति; संस्कृतं सामान्य-व्यवहार-भाषारूपेण स्थापयितुं संस्कृतभारत्या निरन्तरं कार्यं क्रियते। प्रान्ताध्यक्षः डॉ. आनन्दभारद्वाजः अपि अवदत्— “संस्कृतं भारतवर्षस्य प्राणः अस्ति।”

कार्यक्रमे प्रान्त-मन्त्री श्री गिरीशतिवारी, प्रान्त-प्रचार-प्रमुखः श्री जगदीशजोशी, परिसर-निदेशकः श्री हेमचन्द्रपाण्डेयः, जनपद-मन्त्री डॉ. रघुनाथभट्टः, जनपद-प्रचार-प्रमुखः डॉ. गोपेशपाण्डेयः, श्री ज्योतिप्रकाशजोशी, आचार्यः पवनपाठकः, श्री धर्मराजभट्टः, श्री मनोजपाण्डेयः, डॉ. गणेश: उपाध्यायः, श्री प्रियांशु: उप्रेती, श्री देवेन्द्रसिंहबोरा, वर्गाधिकारी श्री नवीन: जोशी, श्री प्रकाशजोशी, श्री सन्तोषकापड़ी इत्यादयः कार्यकर्तारः सामाजिकाश्च उपस्थिताः आसन्। कार्यक्रमस्य संचालनं पिथौरागढस्य जनपद-मन्त्रिणा डॉ. रघुनाथभट्टेन कृतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button