आत्मनः अमरत्वम् — “आचार्यकीर्तिवल्लभमैन्दोलिया”

आत्मनः अमरत्वम् — “आचार्यकीर्तिवल्लभमैन्दोलिया”
भारतीयदर्शनस्य मूलाधारः आत्मतत्त्वमेव अस्ति। वेदाः, उपनिषदः, भगवद्गीता च आत्मानं नित्यं, अजरं, अमरं च घोषितवन्तः। शरीरं नश्वरं, आत्मा तु शाश्वती—इति सिद्धान्तः सनातनधर्मस्य हृदयम् अस्ति। धार्मिकग्रन्थेषु आत्मा ईश्वरस्य अंशः इति प्रतिपाद्यते। यथा ईश्वरः नित्यः, अव्ययः, अमरः च, तथैव आत्मापि अजरामरा भवति। संस्कारवशात् सा संसारचक्रे प्रविश्य विविधेषु शरीरेषु निवसति। यदा आत्मा यत् शरीरं प्रविशति, तदा सः जीवः स्त्री वा पुरुषः इति नाम्ना व्यवह्रियते। वस्तुतः आत्मनः न रूपम् अस्ति, न वर्णः, न लिङ्गं च।
ऋग्वेदे आत्मतत्त्वस्य गूढं स्वरूपं प्रतिपादितम्—
अपाङ्प्राङेति स्वधया गृभीतोऽमत्यों मर्त्येना सयोनिः।
ता शश्वन्ता विषूचीना वियन्तान्यन्यं चिक्युर्न नि चिक्युरन्यम्॥
(ऋग्वेदः 1/164/38)
अस्य मन्त्रस्य भावार्थः अयम्—जीवात्मा अमरः अस्ति, शरीरं तु मर्त्यं नश्वरं च। आत्मा एव सर्वेषां शारीरिकक्रियाणां अधिष्ठाता अस्ति। यावत् शरीरे प्राणः तिष्ठति, तावत् शरीरं क्रियाशीलं भवति। आत्मतत्त्वं तु अतिगूढं वर्तते, यत् महान्तोऽपि विद्वांसः सम्यक् न जानन्ति। तस्य आत्मज्ञानस्य प्राप्तिरेव मानवजीवनस्य परमलक्ष्यम् इति वेदान्ताः उद्घोषयन्ति।
बृहदारण्यकोपनिषदि आत्मनः स्वरूपं सुस्पष्टं निरूपितम्—
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः।
एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः॥ (बृहदारण्यकोपनिषद् 8/7/1)
अत्र आत्मा पापरहितः, जरामरणशोकरहितः, क्षुधातृष्णारहितः, निष्कामः च इति वर्णितः। स एव आत्मा ज्ञातव्यः, चिन्तनीयः, अनुभावनीयः च। श्रीमद्भगवद्गीतायां आत्मनः अमरत्वं अत्यन्तं स्पष्टतया उपदिष्टम्—
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे॥
(गीता 2/20)
अर्थात् आत्मा कदापि न जायते, न म्रियते। सा अजन्मा, नित्या, सनातनी, पुरातनी च अस्ति। शरीरस्य नाशेऽपि आत्मा न नश्यति।
पुनः—
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्
अन्यानि संयाति नवानि देही॥
(गीता 2/22)
यथा मनुष्यः जीर्णानि वस्त्राणि त्यक्त्वा नवानि धारयति, तथा देही आत्मा जीर्णशरीरं त्यक्त्वा नवशरीरं प्राप्नोति। अन्येषु श्लोकेषु आत्मा अछेद्या, अदाह्या, अक्लेद्या, अशोष्या च इति वर्णिता, या नित्यं सर्वव्यापिनी, अचला, स्थिरा च अस्ति।
हिन्दुधर्मानुसारं शरीरस्य मृत्योः अनन्तरं आत्मा प्रेतस्थितिं प्राप्नोति। त्रयोदशदिनपर्यन्तं तस्याः शान्त्यर्थं श्राद्धतर्पणादीनि कर्माणि क्रियन्ते। ततः सा आत्मा पितृलोकं गच्छति इति धार्मिकविश्वासः अस्ति।
अतः वेदोपनिषद्गीतादिषु प्रतिपादितं आत्मनः अमरत्वं केवलं दार्शनिकविचारः न, अपि तु मानवजीवनस्य दिशानिर्देशकः शाश्वतः सत्यः अस्ति। आत्मज्ञानप्राप्त्या एव मनुष्यः जन्ममरणबन्धनात् मुक्तिं प्राप्नोति—इति सनातनधर्मस्य दृढ़विश्वास:।







