39 तमायां राष्ट्रिय-बास्केटबॉल- प्रतियोगितायां गायत्रीरौतेला इत्यस्याः चयनं सञ्जातम्
वृत्तहरः- डॉ. मूलचन्द्रशुक्लः। रामनगरम्। रामनगरस्य बालिकायाः गायत्री रौतेला इत्यस्याः चयनं 39 तमायां राष्ट्रिय-बास्केटबॉल- प्रतियोगितायां सञ्जातम्। बास्केटबॉल-फेडरेशन- ऑफ-इण्डियाद्वारा 39 तम-राष्ट्रिय- बास्केटबॉल-बालक-बालिकयोः चैम्पियनशिप-इत्यस्य आयोजनं क्रियते।आयोजनमिदं पश्चिम-बङ्ग राज्यस्य कोलकाताक्रीडाङ्गणे भविष्यति,यत्र गायत्री नवम्बर-मासस्य अष्टाविंशतिर्दिनाङ्कात् (28)बालिकावर्गे प्रतिभागं करिष्यति। रामनगरनिवासी कुशाग्रबुद्धियुता गायत्री रौतेला एमपी हिन्दू इण्टर कालेज इत्यस्मिन् दशमकक्षायाः छात्रा वर्तते। गायत्री रौतेला इत्यस्याः पिता पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालये रसायनविज्ञानविभागे प्रयोगशाला-सहायकपदे कार्यरतो विद्यते। तस्याः माता उमा रौतेला गृहिणी अस्ति । पित्रा उक्तं यत् गायत्री नेशनल चैंपियनशिप इत्यर्थं राजस्थानराज्यस्य कोटानगरे समायोजितायां प्रतियोगितायामपि प्रतिभागितामकरोत् ।आरम्भादेव गायत्री बास्केटबाल क्रीडायाः एका महती क्रीडिका अस्ति, यया विभिन्नस्थानेषु आयोजित- प्रतियोगितासु नैकानि पदकानि अर्जितानि। सम्प्रति रामनगर- महाविद्यालये आयोजितायां महिला-बास्केटबाल-प्रतियोगितायामन्तिममेलने विजयीसङ्घे अधिनायिका आसीत्। अस्यामुपलब्धौ नैके गणमान्याः वर्धापनानि बालिकायै दत्तवन्तः,तत्र गुरूजनाः,परिजनाः रामनगर- महाविद्यालयस्य प्राचार्यः प्रो.एम.सी.पाण्डे वर्यः, चीफ प्रॉक्टर प्रो.एस.एस. मौर्यः,प्रो.जे.एस.नेगी, क्रीड़ा प्रभारी डॉ.योगेश चन्द्रः,डॉ. मूलचन्द्रशुक्लः,डॉ.डी.एन.जोशी चेत्यादयः सन्ति। सर्वैरपि गायत्री इत्यस्याः समुज्ज्वलभविष्यस्य आकाङ्क्षा अभिव्यक्ता । एषा बालिका स्वसाफल्यस्य श्रेयः माता-पितृभ्यां,गुरुजनेभ्यः,प्रशिक्षकाभ्यां मयंक, सञ्जय रावत इत्युभाभ्यां च प्रायच्छत्।*