रामनगर-महाविद्यालये ” आगच्छन्तु वयं योगं कुर्याम ” इत्यभियानं प्रारब्धम्
मानवजीवने योगस्य अत्यन्तं महत्वपूर्णं स्थानं-- "मुख्यातिथि: मितेश्वर-आनन्द:" ।। 21मई दिनांकतः 21 जून 2024 दिनांकं यावत् आयोजयिष्यमाणयोगशिविरे निदेशकः महाविद्यालयप्राचार्यः प्रोफेसर-एम.सी.पाण्डेमहोदयेन समस्त- विद्यार्थिभिः, प्राध्यापकैः , शिक्षणेतरकार्मिकैश्च सह स्थानीय- जनमानसानपि शिविरे प्रतिभागार्थं आमन्त्रितं।।
वार्ताहर:-डा.मूलचन्द्रशुक्ल:।रामनगरम्। पी-एन-जी-राजकीय- स्नातकोत्तर-महाविद्यालये रामनगरे नि:शुल्कयोगशिविरस्य प्रारम्भो जातः। योग-एवं- वैकल्पिक- चिकित्सा-विभागद्वारा दशम-अन्ताराष्ट्रिय-योगदिवसोपलक्ष्ये जन-जागरूकता-अभियानानुसारेण ‘आओ हम सब योग करें ‘ अर्थात् आगच्छन्तु वयं योगं कुर्याम इति निःशुल्क-योग-शिविरस्य आयोजनं महाविद्यालय-प्राङ्गणे क्रियते। शिविरस्य शुभारम्भो मुख्यातिथिना रामनगरस्थ- राज्यकर-अधिकारिणा मितेश्वर- आनन्द- महोदयेन,स्नातकोत्तर-योगस्य संयोजकेन डॉ.मूलचन्द्रशुक्लेन समारोहकेन डॉ.डी.एन.जोशीमहोदयेन च मातुः सरस्वत्याः समक्षं संयुक्तरूपेण दीपप्रज्ज्वालनपूर्वकं विहितः।
योग-शिविरे योगप्रशिक्षकेन मुरलीधरकापड़ीमहोदयेन प्रथमे दिवसे सरलयोगासनं, प्राणायाम: इत्यादीनाञ्च अभ्यासः कारितः। एतस्मात् पूर्वं समारोहकः डॉ.डी.एन.जोशीमहोदयो विविध-समागत-अतिथीनां शिविरप्रतिभागीनाञ्च अभिनन्दनं विदधाति। योगप्रभारी शिविर- संयोजकः डॉ. मूलचन्द्रशुक्लमहोदयः शिविरस्य उद्देश्यानि लक्ष्यानि च प्रति स्वविचारान् प्रकटितवान् ।
मुख्यातिथिना मितेश्वर-आनन्द-महोदयेन उच्यते यत् मानवजीवने योगस्य अत्यन्तं महत्वपूर्णं स्थानं वरीवर्ति। अनेन अस्मिन् सन्दर्भे शिविरस्य आयोजनाय वर्धापनानि शुभकामनाश्च प्रदत्ताः । 21मई इत्यतः 21 जून 2024 दिनांकं यावत् आयोजयिष्यमाणस्य योगशिविरस्य निदेशकः महाविद्यालयप्राचार्यः प्रोफेसर एम.सी.पाण्डेमहोदयः समस्त- विद्यार्थिभिः,प्राध्यापकैः , शिक्षणेतरकार्मिकैश्च सह स्थानीय- जनमानसानपि शिविरे प्रतिभागं कृत्वा स्वास्थ्यलाभाय आमन्त्रयति। शिविरसमन्वयकः कुलानुशासकः प्रो.एस.एस.मौर्य महोदयः डॉ.डी.एन.जोशीमहोदयः, शिविर-संयोजकौ योगप्रभारी डॉ. सुमनकुमारः डॉ.मूलचन्द्रशुक्लश्च, योगशिक्षकः डॉ.नितिनढोमणे योगप्रशिक्षकः मुरलीधरकापड़ी च शिविरे जीवनोन्नयनाय समेभ्यः अधिकाधिक-संख्यायामानेतुं प्रतिभागं कर्तुं च प्रेरयन्ति। योगशिविरे प्रशिक्षणाय रामनगरस्थ-योगजिज्ञासुभिः सह प्रशिक्षणार्थिषु सपना शर्मा, मीनाक्षी रौतेला, विनीता सैनी, मोनिका पाण्डे, हरजीत सिंहः, मनीष गोला, संतोष सिंहः आदयः छात्र-छात्राश्च समुपस्थिताः आसन्।