उत्तराखण्डपौड़ी

“नेप”-अभिमुखीकरण-संवेदनशीलताकार्यक्रमस्य माध्यमेन शिक्षकाः नवीन-ऊर्जायाः अभिनवक्रियाकलापै: सह सम्बद्धाः भविष्यन्ति: – “प्रो. इन्दुपाण्डेयखण्डूरी”

पञ्चदशदिवसीयकार्यक्रमे उत्तराखण्ड:, सिक्किमत:, अरुणाचलं, पंजाबत:, उत्तरप्रदेशत: मध्यप्रदेशत: ६३ शिक्षकाः शोधविद्वांसः प्रशिक्षणे सम्मिलिता: सन्ति। ।। मे मासस्य प्रशिक्षणकार्यक्रमः यूजीसीमालवीयमिशन-शिक्षक-प्रशिक्षणकेन्द्रं हेमवतीनन्दन- बहुगुणागढ़वालविश्वविद्यालय-श्रीनगरगढ़वाल-उत्तराखण्डद्वारा आरब्धः अस्ति: अनेकराज्येभ्यः शिक्षकाः शोधकर्तारः च प्रशिक्षणं गृह्णन्ति।।

श्रीनगरं। भारतसर्वकारेण कार्यान्वितस्य दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालस्य एच.एन.बी.गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण १९ मे २०२४ तः आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ६ राज्येभ्यः (उत्तराखण्डं, सिक्किम:, अरुणाचलं, पंजाब:, उत्तरप्रदेश:, मध्यप्रदेश:) ६३ शिक्षकाः शोधविद्वांसः च भागं गृहीत्वा प्रशिक्षणं कुर्वन्ति।

अस्मिन् अवसरे केन्द्रस्य निदेशकः प्राध्यापिका इन्दुपाण्डेयखण्डूरी इत्यनया उक्तं यत् “नेप”-अभिमुखीकरण- संवेदनशीलताकार्यक्रमस्य माध्यमेन शिक्षकाः नवीन ऊर्जायाः अभिनवक्रियाकलापैः च सम्बद्धाः भविष्यन्ति। सर्वाङ्गप्रगतेः कृते बहुविषयकशिक्षा महत्त्वपूर्णा अस्ति। सा अवदत् यत् मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आयोजितेषु एतेषु कार्यक्रमेषु देशस्य अनेकराज्येभ्यः शिक्षकाः शोधकर्त्तार: च बृहत्संख्यायां निरन्तरं भागं गृह्णन्ति। भारतसर्वकारेण कार्यान्विता नूतना शिक्षानीतिः बहुविषयशिक्षया परिपूर्णा, सर्वतोमुखप्रगतेः सहायका च अस्ति। अस्मात् दृष्ट्या मालवीयकेन्द्रेण नूतनशिक्षानीत्यां केन्द्रीकृताः एते प्रशिक्षणकार्यक्रमाः अतीव उपयोगिनो भवन्ति।

सा अग्रेपि अवदत् यत् अस्माकं केन्द्रात् अनेकराज्यानां शिक्षकाः शोधप्रतिभागिनः च अन्तर्जालद्वारा लाभं प्राप्नुवन्ति इति आनन्दः।

सा सूचितवती यत् वर्तमानकार्यक्रमस्य आयोजनं ‘नेप’ २०२० अभिमुखीकरणसंवेदनकार्यक्रमः’ इत्यनेन शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं प्रबन्धनं च, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षकान् प्रशिक्षिताः भविष्यन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ अन्तर्जाल-सत्रौ भवतः। कार्यक्रमस्य अन्ते बहुविधप्रश्नाः उत्तराणि च दत्त्वा प्रतिभागिनां मूल्याङ्कनं अपि भवति । एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां प्रतिभागिभ्यः दीयते। अनेन प्रकारेण शिक्षकाः शोधकर्तारश्च अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या, नवीनक्रियाकलापैः च सम्बद्धाः भविष्यन्ति इति सा अवदत्।

सत्रसंचालनाय सहायकसंचालकेषु डॉ. राहुलकुंवरसिंह:, डॉ. सोमेशथपलियाल: एवं कार्यक्रमकार्यकारिणी डॉ. कविताभट्टशैलपुत्री एवं सहायक: डॉ. अनुरागवर्य: आसन्।
समन्वयकार्ये पूनमरावत:, अनिलकठैत: च सक्रियभूमिकायाम् आस्ताम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button