पूरन चन्द्र सती वर्यस्य सेवानिवृत्तौ अभिनन्दनसमारोहः

वार्ताहरः-डॉ. मूलचन्द्रशुक्लः।रामनगरम्। पीएनजी- राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य पूरन चन्द्र सती वर्यः प्रधानसहायकपदात् सेवानिवृत्तः जातः। अस्मिन्नुपलक्ष्ये प्राचार्यः प्रो.एम.सी.पाण्डे,स्टाफ क्लब सचिवः डॉ.नरेश कुमारः, डॉ.जे.पी.त्यागी,डॉ.प्रमोदः पाण्डे,प्रकाश चन्द्र पपनै,मोहन सिंहबिष्टः आदिभिः संयुक्तरूपेण पूरन चन्द्र सती महोदयाय अङ्गवस्त्रं प्रतीकचिह्नादिकं च समर्पितम्। प्राचार्यः प्रोफेसर एम.सी.पाण्डे वर्यः निगदितवान् यत् महाविद्यालये तेन कृतकर्तव्यनिष्ठावदान-निरन्तरसेवयोश्च प्रशंसां विधाय प्रशस्तिपत्रेण ससम्मानमभिनन्दितवान्। तत्र प्राचार्यमहोदयेन प्रोक्तं यत् पूरन सती महोदयः रामनगरमहाविद्यालये स्वसेवा काले विभिन्नदायित्वानां कर्तव्यनिष्ठापूर्वकं सेवानिर्वाहो विहितवान्। अभिनन्दनसमारोहे प्रो.पुनीता कुशवाहा,डॉ.प्रमोद जोशी, डॉ. लवकुशचौधरी, डॉ.नरेश कुमारः, डॉ.अलका राजौरिया,डॉ. सुभाष पोखरियालः,डी.एन.जोशी, डॉ .जे.पी.त्यागी इत्यादयः महाविद्यालयस्य शिक्षण- शिक्षणेतरकार्मिकाः तस्य स्वस्थ- समृद्धजीवनस्य समुज्ज्वलभविष्यस्य च कामनां विधाय सेवानिवृत्तकालिकवर्धापनानि प्रायच्छन्। तत्र (विदाई )कार्यक्रमे डॉ.सुरेश चन्द्रा, डॉ.योगेश चन्द्रः, डॉ .देव आशीष,डॉ.पवन टम्टा,नन्दन सिंह रौतेला, नितिन विद्या,आनन्द बल्लभः रिखाड़ी, धन सिंहः,किशन सिंहः,नागेन्द्र सिंहः, राम सिंहः, गोसिया खानम,किरन देवी,दर्शन सिंहः, बलवन्त सिंहः,मदन भारती, योगेश सती,प्रकाश चन्द्रः,आदयः समुपस्थिता आसन्। विदाई समारोहानन्तरं महाविद्यालय- पारिवारिकाः प्राङ्गदं, दुन्दुभिः-इत्यादीनां वादनपूर्वकं पूरन चन्द्र सती महोदयस्य निवासस्थानं शान्तिकुञ्जं यावत् (रामनगरं) ससम्मानं प्रेषितवन्तः।*







