आचार्य-महामण्डलेश्वरः स्वामी कैलाशानन्द गिरि महाराजः इत्यनेन जम्मू-कश्मीरप्रदेशे संस्कृतगुरुकुलस्य स्थापनार्थं निवेदनं पुरस्कृतम्।

वार्ताहरः-डॉ.मूलचन्द्रशुक्लः।जम्मूः।निरञ्जनपीठाधीश्वरेण श्रीश्री १००८ आचार्यमहामण्डलेश्वरेण स्वामीश्रीकैलाशानन्दगिरिमहाराजेन निगदितं यत् महन्तः रोहितः शास्त्री देववाणीसंस्कृतस्य प्रचारार्थं यान् काञ्चन अपि प्रयासान् कुरुते,ते संस्कृतप्रेमिणामुत्साहं वर्धयिष्यन्ति, भारतीयसंस्कृतिं च सुदृढं करिष्यन्ति।
अस्माकं सांस्कृतिकं वैभवं विश्वशान्तेः संदेशं प्रददाति’ इति – शामलालशर्मा।
जम्मूनगरे जम्मू-उत्तरविधानसभा-क्षेत्रस्य विधायकः श्रीमान् शामलालशर्मा श्री कैलख ज्योतिष-वैदिकसंस्थान-ट्रस्ट इत्यस्य अध्यक्षः राज्यपुरस्कृतः महन्तः रोहितः शास्त्री ज्योतिषाचार्यश्च, परमपूज्य-निरञ्जन-पीठाधीश्वरस्य श्रीश्री १००८ आचार्य- महामण्डलेश्वरस्य स्वामीश्रीकैलाशानन्दगिरि महाराजस्य जम्मू-आगमनकाले शिष्टाचारमेलनपूर्वकं संस्कृतभाषायाः प्रचारप्रसारसंरक्षणादिषु विषयेषु महत्त्वपूर्णां चर्चां कृतवन्तौ।
तत्र परिचर्चाक्रमे महन्तेन रोहित- शास्त्रिणा प्रोक्तं यत् संस्कृतम् अखण्डभारतस्य अवधारणायाः भारतीयसभ्यतासंस्कृत्योश्च ऐक्यं प्रतिष्ठापयति। अग्रे तेनोक्तं यत् एषा भाषा अस्माकं प्राचीनज्ञानस्य परम्परायाः साहित्यस्य च आधारभूता अस्ति। संस्कृतस्य संरक्षणसंवर्धनाय च स्वट्रस्ट इत्यस्य प्रतिबद्धता प्रतिपादिता। अस्मिन् प्रसङ्गे महाराजं प्रति जम्मू-कश्मीरप्रदेशे संस्कृतगुरुकुलं स्थापयितुं निवेदनं कृतम्।
परमपूज्यः निरञ्जनपीठाधीश्वरः श्री श्री १००८ आचार्यो महामण्डलेश्वरः स्वामी श्रीकैलाशानन्दगिरि महाराजः अवोचत् यत् श्रीकैलख ज्योतिष-वैदिकसंस्थान-ट्रस्टद्वारा संस्कृतक्षेत्रे क्रियमाणानि कार्याणि प्रशंसापात्राणि वर्तन्ते। अग्रे सः वक्ति यत् एते प्रयासाः संस्कृतप्रेमिणामुत्साहं वर्धयन्ति, भारतीयसंस्कृतिं च सुदृढां करोति।
विधायकः माननीयः शामलालशर्मा प्रोक्तवान् यत् ‘‘देववाणीसंस्कृतस्य विकासेन न केवलं भारतं ‘विश्वगुरुत्वं प्राप्स्यति,अपितु एषा विश्वशान्तेः समग्रविकासस्य च दिशि मार्गदर्शिकारूपेण अस्ति।अद्यापि संस्कृतं प्रासङ्गिकं वरीवर्ति यतोहि संस्कृतद्वारा समाजः संस्कारयुतः सामाजिकविकाससंयुतश्च भवति।
अन्तिमे तेनोक्तं यत् रोहितशास्त्री संस्कृतस्य प्रचारप्रसाराय प्रदेशे महत्त्वपूर्णां भूमिकां निर्वहति।