जम्मू

केन्द्रीयसंस्कृतविश्वविद्यालयश्री रणवीरपरिसरजम्मूद्वारा उत्तरक्षेत्रीयरूपकमहोत्सवे 2024 इत्यत्र राज्यपुरस्कृतो महन्तः रोहितशास्त्री सम्मानितः

श्रीरणवीरपरिसरस्य निदेशकः प्रोफे. श्रीधरमिश्रवर्यस्य आदर्शैः मार्गदर्शनेन च संस्थानमिदं सततं प्रगतिपथं गच्छति" इति महन्तः रोहितशास्त्री

वार्ताहरः- डॉ. मूलचन्द्रशुक्लः।जम्मू। जम्मूस्थकेन्द्रीयसंस्कृतविश्वविद्यालयश्रीरणवीरपरिसरद्वारा आयोजिते द्विदिवसीये उत्तरक्षेत्रीयरूपकमहोत्सवे 2024 समाप्तिसमारोहे श्री कैलखज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य राज्यपुरस्कृत अध्यक्षः महन्तः रोहितशास्त्री सम्मानितः जातः।
समारोहे मुख्यातिथिः उत्तरजम्मूतः माननीयो विधायक आसीत्। आध्यक्ष्यं प्रोफेसर श्रीधरमिश्रवर्येण निर्व्यूढम्। विशिष्टातिथिः भ्रष्टाचारनिरोधकब्यूरोसंस्थानस्य निदेशकः शक्तिपाठकः सारस्वत-अतिथिः नवभारतटाइम्स-पत्रिकायाः पूर्वसम्पादकः राजेन्द्रभारद्वाजश्च आसीत्।
एतस्मिन्नेवावसरे महन्तेन रोहितशास्त्रिणा उक्तं यत् जम्मूस्थकेन्द्रीयसंस्कृतविश्वविद्यालयश्रीरणवीरपरिसरस्य निदेशकप्रोफे. श्रीधरमिश्रवर्यस्य आदर्शैः मार्गदर्शनेन च गुणवत्तायुक्तशिक्षायाः क्षेत्रे संस्थानमिदमग्रणीस्थानं धारयति। प्रतिदिनम् अनेन विश्वविद्यालयेन विकासस्य नावीन्यं स्थाप्यते। एतदर्थं सम्पूर्णः विश्वविद्यालयपरिवारः अभिनन्दनार्हः।अग्रे तेनोच्यते यत् अहं विश्वविद्यालयस्य सर्वान् छात्राछात्रान् प्रति सन्देशं वच्मि यत् ज्ञानं अत्र भवद्भिरर्जितम् ,तस्य उपयोगः स्वदेशे राष्ट्रस्य भारतीयसमाजस्य च सेवाकरणाय करणीयः। अस्माभी राष्ट्रस्य विकासे च अवदानं दातव्यम्।”

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button