जम्मू

श्रीकैलख-संस्कृतरत्न-पुरस्कारः 2024,आचार्य-महामण्डलेश्वर-स्वामी-कैलाशानन्द-गिरि-महाराजाय प्रदत्तः।

उपराज्यपालवर्येण संस्कृतस्य संवर्धनाय भारतस्य महत्सभ्यतायाः आदर्शानां च प्रचाराय तस्य अप्रतिममवदानं प्रशंसितम्

वार्ताप्रेषकः-महन्तः रोहितशास्त्री।जम्मू। वाग्देव्याः समर्चनपुरस्सरं कार्यक्रमस्य प्रारम्भः जातः। तत्र सर्वैरपि अतिथिभिः सह सादरं महामहिम-उपराज्यपालवर्याणामभिनन्दनं विहितम्।
महामहिम-उपराज्यपालः श्रीमनोज सिन्हा महोदयः श्रीकैलख-ज्योतिष-वैदिक- संस्थान-ट्रस्ट द्वारा आयोजिते समारोहे परमपूज्याय निरञ्जन- पीठाधीश्वराय श्री श्री 1008 आचार्य-महामण्डलेश्वराय संस्कृतगौरवाय स्वामिने कैलाशानन्दगिरि जी महाराजाय कैलखसंस्कृतरत्नपुरस्कारं समर्पितवान्।
तत्र स्वभाषणे उपराज्यपालवर्यः स्वामी कैलाशानन्द गिरि जी महाराजं प्रबुद्धः सन्तः, योगगुरुः, विख्यातश्च विद्वान् इत्यादिकं विवर्ण्य संस्कृतस्य प्रचाराय भारतस्य महत्- सभ्यतायाः आदर्शानां च प्रचाराय तस्य अद्वितीयमवदानं वरीवर्ति इति प्रशंसितवान्।
उपराज्यपालवर्येण उक्तं यत् “भारतस्य मूल्यम्,सर्वसमावेशीसंस्कृतिः, कलात्मकपरम्परा, ‘वसुधैव कुटुम्बकम्’ इत्यादि- भावनासंवर्धनादिकञ्च अस्माकं प्राथम्यमस्ति।भारतं भाविजनानां च कृते शाश्वतम् ,शान्तिपूर्णं, प्रगतिशीलं च जगत् रूपयिष्यति।
तेन प्रोक्तं यत् भारतं 2047 वर्षं यावद् विकसितं राष्ट्रं भविष्यति। स्वसम्बोधने राज्यपालवर्येण अस्मिन् समारोहे निगदितं यत् सर्वविधप्रयत्नकर्तृषु वैज्ञानिकाः आध्यात्मिकाश्च जनाः विकासप्रक्रियायाः नावीन्यं प्रोत्साहयितुमग्रे आगच्छन्तु इति।
समारोहे उपराज्यपाल महोदयः महन्तस्य रोहितशास्त्रिणः श्रीकैलखज्योतिषवैदिकसंस्थानद्वारा संस्कृतभाषायाः प्रसाराय प्रचाराय च कृतसर्वविधमवदानं च प्रशंसयति। अनेन संस्थानेन ‘मोबाइल संस्कृत गुरुकुलम्,’ ‘सरलसंस्कृतबोधः’ इति प्रकाशनम्,‘कर्तव्यपथ’ पत्रिका च इत्यादिकानि संस्कृतप्रचारकार्याणि सम्पादितानि।
कार्यक्रमस्यान्ते रोहित शास्त्री अतिथिभिस्सह समेषां कार्तज्ञ्यं विनिवेदयति।
तत्र समारोहे मान.विधायकः श्यामलाल शर्मा, कुलपतिः प्रोफेसर बीएन त्रिपाठी, श्रीकैलखज्योतिष-वैदिकसंस्थान ट्रस्ट इत्यस्य अध्यक्षः महन्तः रोहित शास्त्री, वरिष्ठाधिकारिणः,आध्यात्मिकगुरवः,धार्मिकसंगठनप्रमुखाः,नागरिकाः,गणमान्याः जनाः छात्राश्च समुपस्थिता आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button