हे.न.ब. गढ़वालविश्वविद्यालये संस्कृतसंभाषणकार्यशालायाः भव्यसमापनम्।
💦 संस्कारस्य संस्कृते: दृष्ट्या प्रो.कमलाचौहानमहाभागा प्रारम्भिककक्ष्याभ्यः संस्कृतसम्भाषणं समर्थितवती। 💦पाणिनीयव्याकरणस्य प्रथमं "कोडिंग्" "चतुर्दशसूत्राणि"
श्रीनगरम्, गढ़वालम्। हे.न.ब. केन्द्रीयगढ़वालविश्वविद्यालयस्य संस्कृतविभागद्वारा आयोजिताया: षड्दिवसीयसंस्कृतसम्भाषणकार्यशालायाः समापनसमारोह: शनिवासरे अत्यन्त: भव्य: उत्साहपूरित: च अभवत्। अस्मिन् कार्यशालायां छात्राः संस्कृतभाषायाम् सम्भाषणकौशलं, व्याकरणस्य कोडिंग्, भाषायाः वैज्ञानिकपक्षं च अभ्यासपूर्वकं अवगतवन्तः।
कार्यशालायां केवलं संस्कृतविभागस्य छात्राः एव न, अपितु आङ्ग्लविभागस्य, भौतिकीविभागस्य, मानवविज्ञानविभागस्य च विभिन्नविभागस्य छात्राः प्राध्यापकाः च भागं गृहीतवन्तः। सर्वे छात्राः विद्वांसः च संस्कृतसम्भाषणकौशलं अभ्यासपूर्वकमधीतवन्तः। कार्यशालायाः समापनदिने छात्राः पाणिनीयव्याकरणस्य वैज्ञानिकतां संस्कृतसम्भाषणस्य च महत्त्वं अनुभूतवन्तः।
संस्कृतस्य संस्कारसंवर्धनार्थं प्रो. कमलाचौहानमहाभागाः वदन्ति। प्रो. कमलाचौहानमहाभागाः संस्कृतस्य महत्त्वं प्रकाशयन्ती उक्तवती यत् संस्कृतभाषा संस्कारसंवर्धनाय संस्कृति-परिचयाय च अतीव महत्वपूर्णं साधनं अस्ति। यदि छात्राः बाल्यकक्ष्यायामेव संस्कृतभाषायाम् अभ्यासं कुर्युः तर्हि संस्कृतस्य आदर्शं संस्कृति-परिचयं च तदानीमेव प्राप्नुयुः।
प्रो. आशुतोषः गुप्तः उक्तवान् यत् अद्य सम्पूर्णं विश्वं संस्कृतसंस्कृतिं शान्तिं च ज्ञानं च अभिमुखं गच्छति। अतः संस्कृतभाषायां सम्भाषणं कृत्वा वयं संस्कृतभाषायाः अभ्युदयं साधयामः।
विश्वस्य दर्शनं संस्कृततः
कार्यशालायां विशेषातिथिरूपेण उपविष्टा दर्शनविभागस्य आचार्या डॉ. कविता भट्टशैलपुत्री दर्शनविषयस्य संस्कृतविषयेन सह सम्बन्धं वर्णितवती। सा उक्तवती यत् विश्वस्य दर्शनं संस्कृततः एव लभ्यते। भारतस्य शिक्षादर्शनं संस्कृतभाषायाः कृते अद्यापि विश्वमञ्चे अग्रणी अस्ति। अस्मिन्नेव अवसरं स्वस्य संस्कृतलेखनस्य पाठं अपि तया कृतम्।
मुख्यतिथिरूपेण आङ्ग्लविभागस्य प्राध्यापिका डॉ. सविता भण्डारी महोदया संस्कृतभाषायाः प्राचीनतावैज्ञानिकतायाः च विषये संस्कृतभाषायामेव स्वविचारान् प्रस्तुतवती। तया प्रतिदिनं कार्यशालायाम् उपस्थित्याः द्वारा संस्कृतसम्भाषणं कृत्वा सर्वेषां मनोबलं वर्धितम्।
पाणिनीयव्याकरणस्य वैज्ञानिकता
कार्यशालायाः अध्यापकः श्री कुलदीपः मैन्दोलः पाणिनीयस्य चतुर्दशसूत्राणां कोडिंगद्वारा संस्कृतव्याकरणस्य वैज्ञानिकतां तस्य च अन्यभाषासु प्रभावं विवृतवान्। तेन उक्तं यत् पाणिनिना प्राचीनकाले एव चतुर्दशसूत्राणां कोडिंगकृत्वा संस्कृतभाषायाः व्याकरणं वैज्ञानिकत्वेन प्रतिष्ठितम्। संस्कृतभाषायाः व्याकरणात्मकं आधारं कथं च अन्यभाषाभ्यः संरचितं व्यवस्थितं च भवति, इत्यपि तेन उक्तम्।
कार्यशालायाः संचालनं डॉ. बालकृष्णः बधानी कृतवान्। सः भविष्ये एवम् अन्यकार्यशालायाः आयोजनस्य योजनां च प्रकाशितवान्। सहैव डा.प्रीतिद्वारा वैदिकविज्ञानविषये प्रतिभागिन: सम्बोधिता: । डॉ. विश्वेशः वाग्मी समापनसमये कृतज्ञतां प्रकट्य सर्वेषां धन्यवादं दत्तवान्। कार्यशालायां पञ्चपञ्चाशत् छात्राः, शोधछात्राः च प्राध्यापकाः प्रत्यक्षरूपेण च अन्तर्जालरूपेण च चतुस्त्रिंशत् प्रतिभागिनः षट् दिनानि पर्यन्तं उपस्थिताः अभवन्। सर्वेभ्यः संस्कृतविभागेन प्रतिभागितायाः प्रमाणपत्रं प्रदास्यते। समापनसमारोहे छात्राणाम् अनुभवः कार्यशालायां छात्रैः लघुनाटिका, हास्यकणिका, रावणस्य अभिनयः इत्यादयः सांस्कृतिककार्यक्रमाः आयोजिताः।