उत्तराखण्डनैनीताल

प्राचार्य प्रो.एम.सी.पाण्डे महोदयेभ्यो मेलिष्यति भारत-नेपाल एनवायरमेंटल लीडरशिप अवार्ड-2024

नवम्बरमासस्य 11 दिनाङ्के नेपालस्थकाठमाण्डू नगरे नेपालस्य विदेशमन्त्रिणा प्रदास्यते सम्मानं

वार्ताप्रेषकः-डॉ.मूलचन्द्रशुक्लः। रामनगरम्। पीएनजी राजकीय स्नातकोत्तर-महाविद्यालय- रामनगरस्य प्राचार्य प्रो.एम.सी.पाण्डे महोदयाः भारत-नेपाल एनवायरमेण्टल लीडरशिप अवार्ड-2024 इति सम्माननं प्राप्स्यन्ति। एतेभ्य अयं विरुदः (अवार्ड) नवम्बरमासस्य 11 दिनाङ्के नेपालस्थकाठमाण्डू नगरे नेपालस्य विदेशमन्त्रिणा प्रदास्यते।प्रो.पाण्डे महोदयेभ्यः पर्यावरणसंरक्षणाय वन्यजीवसंरक्षणाय च भारत- नेपालदेशयोः मैत्रीसम्मेलने आयोजकेन “ग्लोबल लीडरशिप फोरम” इत्यनेन सम्माननमिदं प्रदास्यते। अस्मिन्नवसरे महाविद्यालयस्य समस्त- प्राध्यापकाः शिक्षणेतरकार्मिकाश्च प्राचार्येभ्यः प्रो.एम. सी.पाण्डे महोदयेभ्यो वर्धापनानि शुभकामनाश्च प्रेषितवन्तः। एतस्मात् पूर्वमपि रामनगर- महाविद्यालयस्य प्राचार्याः प्रो.एम.सी.पाण्डे महोदयाः उत्तराखण्ड-सर्वकारद्वारा उच्चशिक्षायामुत्कृष्ट-उल्लेखनीयमवदानाय “भक्तदर्शन” इत्यनेन पुरस्कारेण “प्रिंसिपल ऑफ द ईयर” इत्यनेन पुरस्कारेण च सभाजिताः। एते महात्मा गान्धी राष्ट्रीय ग्रामीण शिक्षा परिषद्,उच्च शिक्षा विभागः,भारत सर्वकार द्वारा “ग्रीन चैम्पियनशिप अवार्ड” इत्यनेन विरुदेन सम्मानिताः जाताः। सम्प्रत्यपि एते उत्तर प्रदेश राज्येन “श्री के.एस.अय्यर वाणिज्य गौरव सम्माननम्” इत्यनेन सम्मानेन पुरस्कृताः।*

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button