व्याससमारोहे संस्कृतकवीनां जातं काव्यप्रस्तवनं
चौधरीचरणसिंहविश्वविद्यालयस्य, मेरठस्य संस्कृतविभागेन कार्यक्रम: समायोजित: ।
मयराष्ट्र:। ऐषमो नवम्बरचतुर्थ्यां चौधरीचरणसिंहविश्वविद्यालयस्य, मेरठस्य संस्कृतविभागद्वारा समायोजितस्य व्याससमारोहस्य संस्कृतकविसमवायकार्यक्रमे कवय: आमन्त्रिता: अभवन् यत्र काव्यप्रस्तवनस्य अवसरं सम्प्राप्य कवय: आत्मानम् अत्यन्तमेव गौरवान्वितं धन्यं चानुभूतवन्त:। एतस्य महत: सारस्वतानुष्ठानस्य भव्यता दिव्यता राष्ट्रस्तरीया महत्ता च समेषां विदितमेव। एतस्मिन् कार्यक्रमे कवि: युवराजभट्टरैसदृश: सहभागं कृत्वा प्रोक्तवान् यत् मदीयं मन: प्रफुल्लितम्, विश्वविद्यालयस्य, विशिष्य च संस्कृतविभागस्य अध्यापकै:, सदस्यै:, छात्रैः च साकं समिल्ल्य आनन्दातिरेक: जात:। आयोजकमण्डलस्य संस्कृतं प्रति निष्ठया, संस्कृतम्प्रति सद्भावेन च मम हृदयं सुतरां स्पृष्टम्। अहं आशासे यदेवमेव भव्यकाव्यसमारोह: आगामिदिनेषु अपि आयोज्येरन्।
स: अवोचत् यत् अत्रावसरे अहं विशेषरूपेण, कार्यक्रमस्य समन्वयकाय संस्कृतसंलग्नमानसाय मनीषिणे डॉ. वाचस्पतिमहोदयाय, अथ च अस्य कार्यक्रमस्य संयोजकाय, सञ्चालकाय अग्रजकल्पाय डॉ. अरविन्दतिवारीवर्याय संस्कृतविभागस्य सर्वेभ्य: सदस्येभ्यश्च अकैतवाभारवाकं धन्यवादं च समर्पयामि, यै: एष: कार्यक्रम: सफलतापूर्वकं समनुष्ठित:। तत्रत्यकार्यक्रमस्य कानिचन यथोपलब्धानि चित्राणि अत्र भवतां मनोमोदाय उपस्थापायामि।
एष: एतादृश: अद्भुत: कविसंगम: आसीत्, यत्र एकत: गुरुकुलस्य षोडशवर्षदेशीया: बटुका: अपि कवितापाठं कुर्वन्ति स्म, अपरतश्च नवति-वर्ष-देशीया: वरिष्ठा: कवयोSपि निज-कविता: पाठं कुर्वन्तः आसन्। एवं वक्तुं शक्यते यदेतत् कविसम्मेलनं युवकवीनां अनुभविकवीनां च विचित्रमेलकम् अवर्तत, यद्धि एक: अद्वितीय: सांस्कृतिक-काव्यिक-महाकुम्भ इव आसीत्। अस्मिन् आयोजने प्राचीनपीठिकानां नव्यपीठिकानां च मध्ये विद्यमानं दौर्यम् अपाकृतम्, कविताया: शक्त्या सर्वे एकत्र संयोजिता:।
तेनोक्तं यत्विशेषत:, अस्मिन् समारोहे मदीयं सौभागधेयम् अवर्तत यदहं त्रिवेणीकवि: प्रो. अभिराजराजेन्द्रमिश्रगुरुवरं, प्रो. कमलापाण्डेयमहोदयां, आचार्यवरम् उमाकान्तशुक्लमहोदयं, प्रो. आचार्यं सुधाकरत्रिपाठीगुरुम्, प्रो. विशनलालगौडमहाशयं समेत्य अनेकान् महत: संस्कृतकवीन् साक्षात्कृतवान् । तेषां गरिमामय्याम् उपस्थितौ काव्यपाठं कृत्वा अहम् आत्मानं भाग्यशालिनम् अनुभवामि।
संस्मरणे युवराजवर्येण उक्तं यत् युगपदेव, मत्कृते अवसरोSयम् अविस्मरणीय: अभवत् यतोहि अहं स्वीय-समकालिकै: कविमित्रै: साकं मेलितुमपि प्राभवम्, तै: समं सम्भाषणम् आचरितवान्। कविमित्रैः सह व्यतियापितानि पलानि मम कृते बहुमूल्यानि वर्तन्ते ।