उत्तराखण्डनैनीताल

रामनगर-महाविद्यालये पञ्चविंशतितमः उत्तराखण्ड-राज्य- स्थापनादिवसः आचरितः

रामनगरम्। पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालये रामनगरे रोवर्सरेंजर्स,नमामि गङ्गे, राष्ट्रियसेवायोजना इत्यादिभि: उत्तराखण्डराज्यस्थापनादिवसस्य पञ्चविंशततमः स्थापनादिवसः आचरितः। कार्यक्रमस्य आध्यक्ष्यं प्राचार्येण प्रो.एम.सी.पाण्डेवर्येण निर्व्यूढम् । अनेन अस्मिन्नवसरे समेभ्यो वर्धापनानि शुभकामनाश्च वितरता राज्यस्थापनोद्देश्यं प्रति ध्यानाकर्ष्टुमाशा अभिव्यक्ता। राज्यकरविभागे असिस्टैण्ट-कमिश्नर इति मितेश्वरानन्दः छात्र- छात्राभ्यः शुभकामनापुरस्सरम् उत्तराखण्डराज्यस्य स्वप्नान् सफलीकर्तुं आह्वयति। यू. एस. ए. इत्यत्र सीईओ प्रेरणाप्रदायकसम्बोधनपूर्वकं डॉ. जितेन्द्रपन्तेन उच्यते यत् छात्र- छात्राः छात्रजीवनादेव उच्चस्तरीय-भविष्यनिर्माणे सत्पराः भवेयुः। डॉ. नरेशकुमारमहोदयः सविस्तरं वक्ति यत् उत्तराखण्ड- राज्यस्य अवधारणानां भविष्ये तस्य समुचितविकाससम्भावनानां च सन्दर्भे सर्वैरपि चिन्तनीयः। रोवर्सरेंजर्सप्रभारी, डॉ.जे.पी. त्यागीमहोदयः कार्यक्रमे उपस्थितानां समेषां धन्यवादं विज्ञापयति। तदनन्तरं राष्ट्रियसेवायोजनायाः स्वयंसेवकैः,रोवररेंजर्स इत्यस्य “नमामि गङ्गे” इत्यस्य च छात्र- छात्राभिः महाविद्यालयपरिसरे स्वच्छताभियानं सञ्चालितम्। कार्यक्रमस्य सञ्चालनं डॉ. सुरेशचन्द्राद्वारा विहितम् । कार्यक्रमे डॉ. सुमनकुमारः, डॉ. ललितमोहनः, डॉ.दीपकखाती, डॉ. नीमा राणा, डॉ. ममता भदोला छात्रछात्राश्च समुपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button