संस्कृत भारती

सप्तदिवसीय- संस्कृतभाषापरिचयवर्गस्य आयोजनं

संस्कृताध्ययनकेन्द्रम् सिटीप्रीमियरमहाविद्यालयः एवं संस्कृतभारतीनागपुरमहानगरसहयोगेन महाविद्यालये सप्तदिवसीयं संस्कृतभाषापरिचयवर्गस्य आयोजनं कृतम्।
वर्गस्य उद्घाटनसत्रे मुख्यवक्तृरूपेण संस्कृतभारती नागपुर महानगराध्यक्षः मोहनखेडकरमहोदयः, अध्यक्षरूपेण सिटीप्रीमियरमहाविद्यालयस्य वरिष्ठा प्राध्यापिका मान्या दीपलीनायडुः महोदया, केन्द्रसंयोजिका मयूरी महोदया, केन्द्रशिक्षकः विनयसिंहराजपूतः इत्यादयः गणमान्यजनाः आसन् । सप्तदिवसीयभाषापरिचयवर्गस्य अस्मिन् क्रमे आगामिषु ७ दिवसेषु महाविद्यालये सरलसंस्कृतसंभाषणस्य अभ्यासः निःशुल्कः भविष्यति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button