संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

गृहे-गृहे संस्कृतं भविष्यति सम्पूर्णे उत्तरप्रदेशे

वार्ताहर:-सचिनशर्मा,मोदीनगरम्,गाजियाबादम् उ.प्र. । उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिता ‘ गृहे-गृहे संस्कृतम् ‘ इति योजनान्तर्गते आवासीयं सरलसंस्कृतभाषाशिक्षकप्रशिक्षणस्य वर्गस्य मार्चमासस्य ११ दिनाङ्के उद्घाटनं जातम् । अस्य वर्गस्य उद्घाटनं वाग्देव्या:
सरस्वतीमातु: पुरतः दीपं प्रज्वाल्य मालाम् अर्पयित्वा च बभूव।
उद्घाटनसत्रे मुख्यातिथिरूपेण चन्द्रकान्तशुक्लवर्य: जगदानन्दझावर्य: रामसुमेरवर्य: च इत्यादय: अतिथयः उपस्थिता: आसन् ।
संस्थानस्य निदेशक: विनयश्रीवास्तववर्य: स्वोद्बोधने उक्तवान् यत् अनया योजनया प्रतिगृहं संस्कृतगृहं भविष्यति इति उक्तवा अस्य वर्गस्य कृते शुभकामनाम् अददत् ।

सत्रस्य विषयः आसीत् – समाजस्य हितं संस्कृते निहितम् । इमं विषयं स्वीकृत्य चन्द्रकान्तशुक्लमहोदयेन उक्तम् यत् वास्तविकतायां समाजस्य हितं संस्कृते एव निहितं वर्तते , अस्मिन् नास्ति कोSपि संशयः। भवन्तः इत: गत्वा समाजे संस्कृतं पाठयित्वा समाजस्य हितं निश्चयेन करिष्यन्ति इति बहु किमपि महोदयेन उक्तम् ।

श्रीरामसुमेरवर्य: शुभकामनां दत्वा वर्गस्य सफलतायै आशीर्वादं दत्तवान् उक्तवान् च संस्कृतकार्यं दैवीयकार्यं वर्तते अतः अस्माभिः इदं कार्यम् उत्तमतया संपादनीयम् ।
इतोSपि वर्गे प्रशिक्षणप्रमुख: सुधिष्ठकुमारमिश्रवर्येण उक्तं यत् कथं प्रशिक्षणं प्राप्तव्यम् , कथं विद्यालयेषु गत्वा बालकान् पाठयाम: इत्यादि । शिक्षकरूपेण अत्र दिव्यरञ्जनवर्य: , राधाशर्मा , सचिनशर्मा, धनञ्जयमिश्र: , श्वेता बरनवाल: , स्तुतिः गोस्वामी , विमलेशमिश्र: च उपस्थिता: सन्ति । सम्पूर्णवर्गे ये जनाः प्रशिक्षणं प्राप्नुवन्ति ते आहत्य ५२ जना: सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button