उत्तरप्रदेश

प्रधानमन्त्री इव स्वीये भाषणे संस्कृतमाचरणीयम् – सतीशशर्मा

वार्ताहरः-शशिकान्तः।उत्तरप्रदेशसंस्कृतसंस्थानेन भाषाविभागस्य अन्तर्गतं सञ्चालितस्य ऑनलाइन संस्कृतभाषायोजनायाः अन्तर्गतं सञ्चालितस्य सद्यास्कसरलसंस्कृतसम्भाषणकक्षायां प्रेरकसत्रस्य आयोजनं कृतम्। उद्घाटनमस्य प्रशिक्षु महक द्वारा विहितम्। सत्रास्य संचालनं विनयः कृतवान्। उद्घाटनसम्बोधनकथनं प्रशिक्षक शशिकांत: कृतवान् । डॉ. विदुषी अनुभवमुक्तवती । संस्थानगीतिका रेखामहोदया द्वारा प्रस्तुता। ज्योति स्वागतीकरणरूपेण मधुरकण्ठेन हरिस्तोत्रं गीतवती। स्वागतभाषणं वृत्तकथनञ्च समन्वयक दिव्यरञ्जन महोदयेन कृतमुक्तञ्च संस्थानमस्मिन् विषये महत् कार्यं कुर्वदस्ति। अनेन गृहे उपविश्य बहूनां जनानां हितं भवति । एतत् केवलं कार्यं न अपितु अभियानमस्ति ।अतिथिपरिचयं च प्रशिक्षकः रजनीशः दत्तवान् । मुख्यातिथिः संस्कृतप्रेमी, भाषणदक्षश्च विद्वान् सतीश शर्मा इतीदं कथितवान् यत् संस्कृतज्योतिः सर्वत्र प्रसरेत् । सर्वत्र संस्कृतदीपः ज्वालनीयः एव । संस्कृते एव नूतनाविष्कारशैली वर्तते । मोदिमहोदय: इव अस्माकं वक्तव्ये संस्कृतसूक्तः भवेयुः एव । यत्र गच्छामः तत्र संस्कृतात् एव प्रारम्भं कुर्याम । अस्माकं संस्कृत वार्तालापेन एव वृत्ति-अवसरा: उपलप्स्यन्ते ।बहुविषयेषु सूचनां दत्त्वा कथाभिः तेन छात्राः प्रेरिताः। एतत् श्रुत्वा एव सर्वे मुग्धाः सम्मोहिताः च भवन्ति । संस्कृतभाषा न केवलं भारते एव पूज्यते अपितु सम्पूर्णं जगत् तया दर्शितं मार्गम् अनुसरति। सः अवदत् यत् वेदपुराणादिकं संस्कृते एव निहितमस्ति । गीता इत्यादिषु विषयेषु अपि प्रकाशं क्षिप्तवान्।
प्रशिक्षकान् प्रोत्साहयन् मुख्यातिथिः अवदत् यत् अस्माकं चरित्रम् एव सर्वं सर्वप्रथमञ्च । चरित्रं संस्कृतं निर्माति । अतः संस्कृतप्रचारः एकेन न अपितु सर्वैः करणीयः । जीवने काश्चन समस्याः उत्पद्यन्ते एव अस्माकं सुखदं दुःखदं च भवति, तदा संस्कृतभाषायां निहितग्रन्थान् अवलोक्य तेषां दर्शितः मार्गः अनुसरणीयः। सत्रे प्रशिक्षकः डॉ. सत्यप्रकाशः सर्वेभ्यः धन्यवादं दत्तवान्।
प्रशिक्षकः रजनीशमहोदयः शान्तिमन्त्रं कृतवान् । कार्यक्रमस्य अन्ते प्रशिक्षकः डॉ. लक्ष्मीनारायण छात्राणां कृते कक्षासम्बद्धा: सूचना: प्रदत्तवान्, प्रचारार्थं च प्रेरितवान्। कार्यक्रमे विनय श्रीवास्तवः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः, प्रो. अधिकारी डॉ. दिनेश मिश्र:, सर्वेक्षिकः भगवान् सिहः, प्रशिक्षण प्रमुख: सुधिष्ठ मिश्र:, समन्वयक: धीरज मैठाणी, दिव्य रंजन राधा शर्मा, अनिल गौतम:, संस्थान प्रशिक्षक डॉ. सत्यप्रकाश मिश्र:, विनयशुक्लः , शशिकांत:, रजनीशः, लक्ष्मीनारायणः, इत्यादयः अन्ये शिक्षकाः अन्ये च शताधिकसामाजिकाः जनाः ऑनलाइनमाध्यमेन उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button