उत्तराखण्डनैनीताल

वैदिकवाङ्मयेषु निहिताः वैज्ञानिकसिद्धान्ताः-प्रो. “मनोजमिश्रः”

रामनगरम्। वैदिकवाङ्मयेषु वैज्ञानिकसिद्धान्ताः निहिताः वरीवृत्यन्ते। इयं वार्ता मुख्यवक्तारूपेण प्रोफेसर मनोज-मिश्र-महोदयेन गुरूदिवसव्याख्यानमालायामुच्यते। पीएनजीराजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरस्य कैरियर- काउंसलिंग-प्रकोष्ठद्वारा सञ्चालितायाः व्याख्यानमालायाः चतुर्दशं व्याख्यानं संस्कृतविभागद्वारा समायोजितम्। व्याख्यानविषयः “वैदिक-विज्ञानस्य विविध-आयामाः” आसीत्।मुख्यवक्तृत्वेन प्रयागराजस्थ-केन्द्रीय-संस्कृत- विश्वविद्यालयस्य गङ्गानाथझा-परिसरस्य वेदविभागाध्यक्षः प्रोफेसर मनोजमिश्र- महोदयः आसीत्। अनेन स्वीये वक्तव्ये विश्वस्य समस्तभाषाणां जननीत्वेन संस्कृतं विविध-ज्ञान-विज्ञानेन समन्वितं,भारतीयसंस्कृति- संस्कारादिना सह नैतिकमूल्यान्यपि शिक्षयत् अमूल्यनिधित्वेन विद्यते,यस्यान्तःकरणे धारणं कल्याणकारकमस्ति । यथोक्तं- “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” । स्वमहत्त्वपूर्णे वक्तव्ये मिश्रवर्यो वैदिकवाङ्मयस्य वैज्ञानिकरहस्यैः सह परिचयं कारयन् वैदिकविज्ञानस्य विविध-क्षेत्रस्थ विषयान् उद्घाटयति। प्रश्नकाले विद्यार्थिभिः कृतजिज्ञासानामपि समाधानं प्रयच्छति।वेदानामाविर्भावः कर्मकाण्ड-आदीनां मुख्यविषयाणां प्रतिपादनमाध्यमेन वैज्ञानिकसिद्धान्तानामुद्घाटनार्थं नियत-उत्तमकर्मकरणार्थं च अभवत्।यथा-विद्युत-उत्पादनादिसिद्धान्ताः। नासदीय-आदि- अनेकानि सूक्तानि विविधोदाहरणानि वरीवृत्यन्ते।एतस्मात् पूर्वं मुख्यातिथिमहोदयस्य स्वागतं कुर्वन् कार्यक्रमनिदेशकः प्राचार्यः प्रोफेसर एम. सी.पाण्डे वर्यः स्वसम्बोधने वक्ति यत् वेदाः केवलं कर्मकाण्डेत्यादिविषयान् एव न प्रतिपादयन्ति अपितु लोकोपकारक-वैज्ञानिकसिद्धान्तान् अपि पुरस्कुर्वन्ति।आयोजक-सचिव: संस्कृतविभागस्य प्रभारी च डॉ.मूलचन्द्र शुक्लः समेषामपि आगतानामभिनन्दनं कृत्वा विषयवस्तुनः प्रास्ताविकं प्रस्तौति।कार्यक्रमस्य प्रबन्धने विशेषसाहाय्ये च करियर-काउंसलिंग- प्रकोष्ठस्य संयोजक: डॉ.अनुराग श्रीवास्तव:, सहसंयोजक: डॉ. दीपक खाती वर्य: प्रकाश सिंह बिष्टश्च आसन्।कार्यक्रमस्यान्ते आयोजनसहसचिवः योगप्रशिक्षकश्च डॉ. मुरलीधर कापडी महोदयः प्राचार्येण मुख्यवक्त्रा च सह समेषां धन्यवादज्ञापनं विदधाति। अस्मिन् कार्यक्रमे रामनगरमहाविद्यालयेन सह विविध-विद्यालय-महाविद्यालय- विश्वविद्यालयानां गणमान्य-जनाः उपस्थिताः आसन्। बनबसा प्राचार्या डॉ.आभा शर्मा,कुलानुशासकः प्रो.एस.एस.मौर्यः,प्रो.विनोदगुप्त:,प्रो.जे.एस. नेगी,डॉ.सुधा मिश्रा, डा.ईशनारायणद्विवेदी, डॉ.मुरलीधरमिश्रः,डॉ.भावनापन्तः,डॉ.डी.एन.जोशी,डॉ. राघवझाः,डा. नीलेश: उपाध्यायः, डा.अम्बरीषमिश्रः,डॉ. नीरजजोशी,डॉ.मिताली, डा.प्रकाशचन्द्र: उप्रेती,डॉ. शारदा पाठक:,डॉ. शिप्रा पन्तः, डा. सुबोधकुमारझाः इत्यादयः प्रतिभागं कृतवन्तः।*

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button