मुरलीधरेण योगविज्ञान-विषये प्राप्तः “विद्यावारिधि:” इत्युपाधिः
रामनगरम्। रामनगरस्थ-पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालय- योग-वैकल्पिक- चिकित्साविभागस्य योगप्रशिक्षकः मुरलीधरकापड़ीमहोदयः ‘वैदिकवाङ्मये प्राणतत्त्वस्य यौगिकानुशीलनम् ‘ इत्यस्मिन् योगविज्ञानविषयके शीर्षके पीएचडी इत्युपाधिः प्राप्तः। मुरलीधरकापड़ीमहोदयाय पीएचडी इति उपाधिः जगदीशप्रसादझावरमलटीबड़ेवाला- विश्वविद्यालयझुंझुनूराजस्थानद्वारा प्रदत्तः। अयं स्वशोधकार्यं योगविज्ञानविभागस्य शोधनिदेशकस्य डॉ.”राजेशकुमार” इत्यस्य कुशलमार्गनिर्देशने पूर्णं कृतवान्। विद्यावारिधि-उपाधेः पूर्वं मुरलीधरकापड़ी पी.जी. “डिप्लोमा इन योगस्य” स्नातकोत्तरयोगस्य च उपाधिं सोबनसिंहजीना- विश्वविद्यालय-अल्मोड़ा इत्यतः योगविज्ञान-विभागाध्यक्षस्य डॉ.नवीनचन्द्रभट्टस्य दिशानिर्देशने प्राप्तवान्। अयं स्वसाफल्यस्य श्रेयः मातृ- -पितृभ्यां,गुरुजनेभ्यः,पत्न्यै, भ्रातृभ्यश्च दत्तवान्। डॉ.मुरलीधरमहोदयस्य उपाधि-मेलनात् परं महाविद्यालयस्य प्राचार्यः प्रोफेसर् एम.सी.पाण्डे,कुलानुशासकः प्रो.एस.एस.मौर्यः, प्रो.जे.एस.नेगी,डॉ.सुमनकुमारः,डॉ.मूलचन्द्रशुक्लः, डॉ.डी.एन.जोशी,डॉ.नितिनढोमणे इत्यादिभिः सह महाविद्यालयपरिवारस्य नैके जनाः वर्धापनानि शुभकामनाश्च दत्तवन्तः। योगप्रशिक्षकः मुरलीधरकापड़ीमहोदयः विगतवर्षेभ्यो योगस्य प्रचारप्रसाराय प्रत्येकं जनं यावत् जनजागरूकतामाध्यमेन नि:शुल्कं योगशिविराणि उत्तमस्वास्थ्यलाभाय समायोजयति।