अखिलभारतीय-उत्तराखण्डमहासभा-भारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं लखनोमहानगरे सुसम्पन्नं
महासभासंरक्षक: महन्तयोगीराकेशनाथ: निर्वाचितेभ्य: शुभाशीषं वर्धापनं च दत्तवान्
लखनऊ।अखिलभारतीयोत्तराखण्डमहासभाभारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं जवाहरलालनेहरू- राष्ट्रीययुवाकेन्द्रहुसैनाबादरोडचौकलखनों महानगरे शनिवासरे महासभाया: राष्ट्रीयाध्यक्षस्य चंददत्तजोशीवर्यस्य अध्यक्षतायां दीपप्रज्ज्वालनेन सह प्रारभत् । शशिभूषण-अमोलीद्वारा सरस्वतीवन्दनाद्वारा परम्परानिर्वहनं कृतं । कार्यक्रमे उत्तराखण्डस्य पारम्परिक वेशभूषायां महिलाभि:
गणेशवन्दनायां “मेरे घर पधारो गजानन” इति गीतं च उत्तराखण्डस्य प्रसिद्धनृत्यं थड़िया च चौंफला गीतनृत्यं सुमधुरं प्रस्तुतीकृतं।
द्विदिवसीये राष्ट्रीयसम्मेलने कार्यक्रमेस्मिन् विभिन्नप्रदेशेभ्य: समागतानाम् अतिथीनां स्वागतं माल्यादिभि: सञ्जातं। कार्यक्रमस्य कुशलसञ्चालनं जनार्दनप्रसादबुडाकोटीवर्येण कृतं। सम्मेलनेस्मिन् राधाबिष्टद्वारारचितपुस्तकस्य काव्यझरना इत्यस्य विमोचनं महासभाया: पदाधिकारिभि: कृतं ।
महासभाया: सम्मेलने त्रिनिर्वाचनप्रभारिणां सानिध्ये पुरातनकार्यकारिणी समाप्ता अभवत् च रविवासरे नवकार्यकारिण्या: गठनं मतदानमाध्यमेन संजातं । सम्पूर्णनिर्वाचनप्रक्रिया श्रीमतीराधाबिष्ट:, मनमोहनदुदपुडी, मोहनचन्दजोशी इत्येषां त्रयाणां निर्देशने सफला अभवत्। शनिवासरे नामांकन च रविवासरे मताधिकारस्य प्रयोग: नवकार्यकारिण्या: कृते अभवत् ।
महासचिवपदे श्री जनार्दनबुडाकोटी नवमहासचिव: निर्वाचितोभवत् स: विजयरावतं पराजितवान् । अन्यपदेषु सर्वसम्मत्या निर्विरोधरूपेण कार्यकारिण्या: पदाधिकारिण: ससम्मानेन महासंगठनाय कार्योद्देश्यविषये संकल्पबद्धा: अभवन् । राष्ट्रीयाध्यक्ष: भवानसिंहरावत:, राष्ट्रीययोपाध्यक्ष: गजेंद्रसिंहचौहान: एवं धर्मानन्दरतूड़ी, राष्ट्रीयपरामर्शक: वीरेंद्रदत्तसेमवाल:, राष्ट्रीयकोषाध्यक्ष: विजेंद्रध्यानी व राष्ट्रीयप्रवक्ता महावीरसिंहपुण्डीर: निर्विरोधनिर्वाचिता: अभवन्। सर्वेभ्य: महासभासंरक्षक: महन्तयोगीराकेशनाथ: निर्वाचितेभ्य: शुभाशीषं प्रदाय वर्धापनं दत्तवान् ।
कार्यक्रमेस्मिन् श्रीमती सुनन्दा असवाल:, श्रीमती संगीता रावत:, श्रीमती नीलमजुयाल:, श्रीमती रजनी राणा, के. डी. जोशी, भवानसिंहरावत:, अवधेशकोठारी, आर.पी.जुयाल:, हेमंतगडिया, अशोक: असवाल:, जगदीशबुटोला, शशिभूषण-अमोली, कुलदीपमैन्दोला, मदनमोहनबिष्ट:, बलवन्त वांणगी, जे. एस. राणा, , प्रवीणपुरोहित:, चादय: सदस्या: पदाधिकारिण: उपस्थिता: आसन्।