‘योगः’ स्वस्थ्य-मानवजीवनस्य आधार:-अमिता लोहनी
रामनगर-महाविद्यालये अन्ताराष्ट्रिय-योगदिवसे विविधाः कार्यक्रमाः आयोजिताः

रामनगर-महाविद्यालये अन्ताराष्ट्रिय-योगदिवसे विविधाः कार्यक्रमाः आयोजिताः
वार्ताहरः- डॉ. मूलचन्द्र शुक्लः
*रामनगरम्।योगः स्वस्थ्य-मानव- जीवनस्य आधारः इति अन्ताराष्ट्रिय-योगदिवस-समारोहे मुख्यातिथिः राज्य-महिला-आयोग-उत्तराखण्डस्य पूर्व-उपाध्यक्षा अमिता लोहनी महोदया उक्तवती। पीएनजी राजकीय-स्नातकोत्तर-महाविद्यालय-रामनगरे दशमः अन्ताराष्ट्रिय- योगदिवसः सोत्साहं हर्षोल्लासपूर्वकं च समाचरितः। योग-वैकल्पिक- चिकित्सा-विभागद्वारा आयोजित- समारोहस्य प्रारम्भः कार्यक्रमस्य अध्यक्षः प्राचार्यः प्रोफे.एम.सी.पाण्डेमहोदयः, मुख्य-अतिथिः राज्य-महिला- आयोग-उत्तराखण्डस्य पूर्व- उपाध्यक्षा अमिता लोहनीमहोदया,कार्यक्रमसंयोजकः डॉ.सुमन कुमारः,समन्वयकः योगविभाग-प्रभारी डॉ.मूलचन्द्र शुक्लः, डॉ.दीपक खाती च संयुक्त-रूपेण मातुः सरस्वत्याः समक्षं दीपप्रज्ज्वलनपूर्वकं कृतः ।अत्र योगाभ्यासेन सह नैके कार्यक्रमाः समायोजिताः। तत्र प्रातःकालात् षड्वादनात् पूर्वाभ्यासो विहितः, सरस्वति- वन्दनानन्तरं महाविद्यालयस्य ऑडिटोरियम इत्यत्र सामूहिक- योगाभ्यासः सप्त वादनात् च कारितः।योगाभ्यास-सत्रे योग- प्रशिक्षकः डॉ.मुरलीधर कापड़ी महोदयः योग-वैकल्पिक- चिकित्साविभागः, एनसीसी,एनएसएस,रोवर रेंजर्स,नमामि गंगे इत्यादि-सहयोगि-छात्र-छात्राभिः सह स्थानीय-नागरिकान् अपि योगासनं कारितवान्।अनेन मानव- जीवने योगस्य महत्त्वम् , सात्विकभोजनम् , सकारात्मक- चिन्तनम् ,व्यक्तित्वविकासः इत्यादिविषयेषु विस्तरेण प्रशिक्षणं प्रदत्तम्। मञ्च- सञ्चालकः डॉ.डी.एन.जोशी महोदयः समस्त-आगत-अतिथीनां योगप्रशिक्षुणां च अभिनन्दनं पुरस्करोति। अस्मिन् कार्यक्रमे विशिष्ट-अतिथिः रामनगरस्थ-ब्लॉकप्रमुखा रेखा रावत,सांसद-प्रतिनिधिः इन्दर सिंह रावत,राज्य-कर-अधिकारी मितेश्वर आनन्दः, समाजसेवी गणेश रावत इत्यादयः गणमान्याः योगाय जीवनोपयोगी उक्तवन्तः । एते योग एवं वैकल्पिक-चिकित्सा- विभागीय-विद्यार्थिद्वारा कृतयोगासनैः सह प्रस्तुताः योगप्रस्तुतयः प्रशस्ताः प्रशंसनीयाश्च उक्तवन्तः। योगाभ्याससत्रे पूर्वछात्र अमित लोहनी द्वारा बांसुरी-वादनेन सर्वेपि मन्त्रमुग्धाः सञ्जाताः। अस्मिन् उपलक्ष्ये मईमासस्य 20 दिनाङ्कतः जून मासस्य 20 दिनाङ्कं 2024 यावत् ‘आओ हम सब योग करें’ अर्थात् आगच्छन्तु वयं योगं कुर्याम इति जनजागरण- अभियाने उत्कृष्ट-भूमिकानिर्वहनार्थं योग- प्रशिक्षकाय डॉ.मुरलीधर कापड़ी महोदयाय प्रशस्तिपत्रेण स्मृतिचिह्नप्रदानेन च अतिथयः सभाजयन्ति ।पुरस्कारवितरणकार्यक्रमे मनीष कुमारः,हरजीत सिंहः,सपना शर्मा,सपना पाण्डेया,ज्योति बिष्टः,विनीता सैनी,मीनाक्षी रौतेला,सूरज पाण्डेयः, रितिक कड़ाकोटी, रेनू,सोनी,मधु, इत्यादयः योगविभागीयाः विद्यार्थिनः स्मृतिचिह्नद्वारा प्रमाणपत्र-प्रदानेन च सभाजिताः।मञ्चसञ्चालनं डॉ.डी.एन.जोशी महोदयेन कृतम्। अस्मिन्नवसरे योग एवं वैकल्पिक-चिकित्सा- विभागस्य प्रभारी डॉ.मूलचन्द्र शुक्लः,पीजी डिप्लोमा योगस्य प्रभारी डॉ.सुमन कुमारः, नमामि गङ्गे नोडल अधिकारी डॉ.भावना पन्तः,एनसीसी प्रभारी लेफ्टिनेंट डी.एन.जोशी,लेफ्टिनेंट कृष्णा भारती,डॉ.दीपक खाती,एनएसएस प्रभारी डॉ.सुरेश चन्द्रा,डॉ.जे.पी.त्यागी इत्यादयः प्राध्यापकाः, मुख्य-प्रशासनिक- अधिकारी गोविन्द सिंह जंगपांगी,प्रकाश चन्द्रः, सुशील कुमारः,छात्र-छात्राः, भूपेन्द्र खाती इत्यादयः अनेके स्थानीय-नागरिकाश्च उपस्थिताः आसन्।*