विज्ञानयुगे अपि जना: संस्कृतेन वदन्ति एतत् भारतीयानां गौरवम्— “विधानसभाध्यक्षा ऋतुभूषणखण्डूरी”
धर्मजातिभाषाविभेदे संस्कृतमेव सहायक: -"श्रीप्रेमचन्द्रशास्त्री""
![](https://sanskritsamachar.com/wp-content/uploads/2024/06/IMG-20240606-WA0243.jpg)
।कोटद्वारं। संस्कृतभारती-उत्तराञ्चलस्य रितेशशर्मा-सरस्वती-विद्यामन्दिर-इण्टरकॉलेज- जाकीनगरकण्वनगरीकोटद्वारे आवासीयप्रबोधनवर्गस्य आरम्भः अभवत् । कार्यक्रमस्य आरम्भः मुख्यातिथे: दीपप्रज्वलनेन च वैदिकप्रार्थनाद्वारा च अभवत्। कार्यक्रमस्य मुख्यातिथिः विधानसभायाः अध्यक्षा श्रीमती ऋतुखण्डूरीभूषणवर्यया उक्तं यत् संस्कृतं सर्वाषां भाषाणां जननी अस्ति। अद्य विज्ञानस्य युगः अस्ति । विज्ञानयुगे अपि जना: संस्कृतेन वदन्ति एतत् भारतीयानां गौरवम् । अतः सर्वैः छात्रैः संस्कृतस्य अध्ययनेन स्वसंस्कृतेः भाषायाः च शिक्षणे सक्रियरूपेण भागः ग्रहीतव्यः । वर्गाधिकारी डी.आर. मेजर्-सूबेदारगब्बरसिंहः शिविरार्थिनः सम्बोधयन् अवदत् संस्कृतभाषायां सर्वेषां शास्त्राणां पुराणानां सारं निगूढम् अस्ति इति । संस्कृतभारतीद्वारा अस्मिन् वर्गे कोटद्वारवासिनः सक्रियरूपेण भागं गृह्णीयुः ।
मुख्यवक्ता पश्चिमोत्तरक्षेत्रसम्पर्कप्रमुख: श्रीप्रेमचन्दशास्त्री संस्कृतभाषायाः उद्भवं विकासं च प्रकाशयन् सर्वेभ्यः अवदत् यत् अद्य सम्पूर्णे विश्वे दशकोटिजनाः संस्कृतं वदन्ति। न केवलं भारतं, अपितु सम्पूर्णे विश्वे अनेकेषु विश्वविद्यालयेषु संस्कृतस्य पाठनं क्रियते। तेन उक्तं यत् धर्मजातिभाषाविभेदे संस्कृतमेव सहायक: । प्रान्तमन्त्री श्रीगिरीशतिवारी उक्तवान् यत् अद्य संस्कृतभारत्या: कारणेन गृहे गृहे संस्कृतं संजायते तत्र मूलाधार: कार्यकर्तृणां समर्पणम् अस्ति । वर्गेस्मिन् सहयोगिनश्च कुलदीपमैन्दोला, अंकितपाण्डेय:, सिद्धार्थनैथानी, रोशनबलूनी इत्यादयः शिविरस्य मुख्याध्यापकाः च कार्यकर्तार: शिवरार्थिन: च उपस्थिता: आसन् |