संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

भारतं ज्ञातुम् इच्छन्ति चेत् संस्कृतस्य ज्ञानम् आवश्यकम् – “रंगराजनकुमारः”

विद्यार्थिन: सम्भाषणेन राष्ट्रे विश्वे च संस्कृतस्य प्रचारं प्रसारं च करिष्यन्ति

वार्ताहर:-सचिन:। यदि भवन्तः भारतं ज्ञातुम् इच्छन्ति तर्हि तस्य कृते संस्कृतस्य ज्ञानम् अत्यन्तम् आवश्यकं वर्तते इति उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रशिक्षक: रंगराजनकुमारः छात्रान् बोधितवान् । उत्तरप्रदेशसंस्कृतसंस्थानेन द्वारा गृहे गृहे संस्कृतम् इति संचालितयोजनायाः अंतर्गतं जना: संस्कृतसम्भाषणं कर्तुम् अधिका: उत्साहिन: जिज्ञासुकाः इच्छुकाः च सन्ति ।

अस्य वर्गस्य समापनसमारोह: उच्चप्राथमिकविद्यालये चांन्दनाग्रामे अभवत् । इदम् एतिहासिक-क्षणं वर्तते । विद्यार्थिन: संस्कृतं पठन्ति सम्भाषणं कुर्वन्ति च ।
एते सर्वेSपि संस्कृतक्षेत्रे निश्चयेन किमपि नूतनं प्रयोगं करिष्यन्ति । संस्कृतसेवां करिष्यन्ति । पुनः राष्ट्रे विश्वे च संस्कृतस्य प्रचारं-प्रसारं च करिष्यन्ति ।

एतस्या: कल्पनायाः इच्छाया: आवश्यकतायाः च बीजारोपणं प्रयत्नं च करोति । भाषाप्रशिक्षक: श्रीमान् रंगराजनकुमारवर्य: । प्रशिक्षकमहोदय: एतेषां व्यवहारे आचरणे च संस्कृतम् आनेतुं प्रयत्नं करोति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button