पंजाबसंस्कृत भारती
संस्कृतभारती-पंजाबप्रान्तद्वारा पटियालाजिल्लागोष्ठी आयोजिता
आकर्षणस्य विषयः अस्ति यत् संगोष्ठ्यां मातृशक्तिः ४०% उपस्थितः आसीत्
विनसिंहराजपूत:। सोमवासरे संस्कृतभारतीपंजाबप्रान्तस्य पटियालाजनपदगोष्ठी आयोजिता अभवत्। आयोजितायां संगोष्ठ्यां प्रांताध्यक्षः संस्कृतभारतीपञ्जाबप्रान्तस्य डॉ. वीरेन्द्रकुमारमहोदयः, सहमन्त्री अजयकुमारमहोदयः, विभागसंयोजकः विनयसिंहः, जिलामंत्री गगनदीपः पाठकः, बालकेन्द्रप्रमुखः वीरवंतः महोदयः सहैव मंदिरसमितिसदस्यः रविदत्तमहोदयः आदय: उपस्थिता: आसन्।
संगोष्ठ्यां संभाषणशिबिरस्य, बालकेन्द्रस्य, गीताशिक्षणकेन्द्रस्य, जिलासम्मेलनस्य च आयोजनविषये चर्चाः अभवन् । आकर्षणस्य विषयः अस्ति यत् संगोष्ठ्यां मातृशक्तिः ४०% उपस्थितः आसीत् । एतेन पञ्जाबप्रदेशः पुनः सुवर्णमयः अवसरः प्राप्नुयात् इति सुनिश्चितं भवति ।