संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशलखनऊ

आवासीय: सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्ग: प्रचलति उत्तरप्रदेशसंस्कृतसंस्थाने

🔵समाजस्य हितं संस्कृते एव निहितम् - "विनयश्रीवास्तव:" ।। 🔵 आहत्य ५२ जना: सन्ति। २७ पुरुषा: २५ महिलाः च एते सर्वेSपि इत: प्रशिक्षणं प्राप्य अन्यान् छात्रान् पाठयिष्यन्ति।।

वार्ताहर:-सचिनशर्मा,उ.प्र.।
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिता ‘ गृहे-गृहे संस्कृतम् ‘ इति योजनान्तर्गते आवासीय: सरलसंस्कृतभाषाशिक्षकप्रशिक्षणवर्ग: उत्तरप्रदेशसंस्कृतसंस्थाने एव प्रचलति । अस्य वर्गस्य उद्देश्यं वर्तते यत् सम्पूर्णे उत्तरप्रदेशे गृहे-गृहे संस्कृतं भवेत् । जना: इत: प्रशिक्षणं प्राप्य स्वस्य स्वस्य जनपदे विद्यालयेषु सरलसंस्कृतसम्भाषणं पाठयिष्यन्ति।

अनया योजनया प्रतिगृहं संस्कृतगृहं भविष्यति इति संस्थानस्य दृढसङ्कल्प: वर्तते इति भगवानसिंहचौहानमहोदयेन उक्तम् ।
अत्र प्रात:कालात् आरभ्य रात्रिकालपर्यन्तं प्रतिक्षणं प्रशिक्षणं प्रचलति। यथा – विभक्तिः लकाराः सप्तककारा: कथा: गीतानि इत्यादय: विषया: आसन् । एतेषां विषयाणां सरलतया
पाठनं भवति। इतोSपि वर्गे प्रशिक्षणप्रमुखेन सुधिष्ठकुमारमिश्रवर्येण उक्तं यत् कथं प्रशिक्षणं प्राप्तव्यम् , कथं विद्यालयेषु गत्वा बालकान् पाठयाम: इत्यादि ।

शिक्षकरूपेण अत्र दिव्यरञ्जनवर्य: , राधाशर्मा , सचिनशर्मा, धनञ्जयमिश्र: , डॉ.श्वेता बरनवाल: , डॉ. स्तुतिः गोस्वामी , विमलेश मिश्र: च उपस्थिता: सन्ति । सम्पूर्णवर्गे ये जनाः प्रशिक्षणं प्राप्नुवन्ति ते आहत्य ५२ जना: सन्ति। २७ पुरुषा: २५ महिलाः च एते सर्वेSपि इत: प्रशिक्षणं प्राप्य अन्यान् छात्रान् पाठयिष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button