उत्तरप्रदेशसंस्कृत भारती

भवन्तः संस्कृतभाषया राष्ट्रस्य समग्रं विकासं कुर्वन्तु – “महापौर: हरिकान्तः अहलुवालिया”

🔵सर्वे संस्कृतेन सम्भाषणं कर्तुं समर्था:भवन्तु इत्युद्देश्यं 'संस्कृतभारत्या:' - प्रान्तमंत्री गिरीशतिवारी🔵 🔵संस्कृतभारत्या: पश्चिमोत्तरक्षेत्रीयवर्गस्य प्रशिक्षणवर्गस्य शुभारम्भ: 🔵

संस्कृतभारतीक्षेत्रीय: आवासीय-प्रशिक्षणवर्गः बालेरामवृजभूषण-कमलादेवी- विद्यामन्दिरे, शास्त्रीनगरे मेरठनगरे प्रारब्ध: । उद्घाटनसमारोहः – दीपप्रज्वलनं घ मान्यवरातिथेः कराभ्यां सम्पन्न:।

प्रास्ताविकभाषणे – श्री प्रभाकरत्रिपाठी (मेरठप्रान्तमन्त्री) स्वभाषणे संस्कृतभारत्याः उद्देश्यं विस्तरेण विवृतवान्। स: उक्तवान् यत् गतपञ्चचत्वारिंशत्संवत्सराणां यत्नेन दशकोटिजनान् देशे विदेशे च संस्कृतभाषायाम् वक्तुं समर्थं कृतवती। इत्यसौ महनीयः कार्यसिद्धिः। “वसुधैव कुटुम्बकम्” इत्यस्मिन् भावे स्थित्वा विश्वस्य कल्याणाय संस्कृतभारती चरमं लक्ष्यं पश्यति।

मुख्यवक्तृत्वे – डा॰ वाचस्पतिमिश्रः उक्तवान् – “लक्ष्यम् अवश्यं स्मर्तव्यम् – एकं लक्ष्यं, एका भाषा, जनजनस्य भाषा – संस्कृतभाषा इति ।

मुख्यातिथि: महापौरः श्री हरिकान्तः अहलुवालिया
छात्रान् सम्बोध्य उक्तवान् यत् – “एषः देशः भवताम् हस्तयोः अस्ति। भवन्तः संस्कृतभाषया राष्ट्रस्य समग्रं विकासं कुर्वन्तु इति। वर्गाधिकारी श्री राजगोपालवर्यः सर्वान् प्रेरितवान् यत् सर्वे अपि संस्कृतभाषायामेव संवादं कुर्वन्तु।

धन्यवादकथनम् – श्री इशेन्द्रः पारासरः कृतवान् । अशीतिछात्रा: शिविरे संस्कृतसम्भाषणपूर्वकं भाषाप्रबोधने शि णं प्राप्नुवन्ति। वर्गमार्गदर्शकेषु डा॰ देवेन्द्रपण्ड्या क्षेत्र-संग़ठन-मन्त्री, श्री गिरीश तिवारी – उत्तराखण्ड-प्रान्तमन्त्री
श्री योगेशविद्यार्थी – प्रान्त-संग़ठन-मन्त्री, श्री संदीपकुमारः
कुलदीपमैन्दोला, नीरजः, पूनमः, आकाशः, नीलकमलः, सन्तोषः, तरुणः, डा. नरेन्द्रः तेवतियाः, अंकित:, आदय: शिक्षणरता: सन्ति। एवं मेरठनगरे संस्कृतभारती-प्रशिक्षणवर्गस्योद्घाटनं सम्पूर्णं राष्ट्रं संस्कृतभाषायाः माध्यमेन एकीकर्तुं, संस्कृति-चेतनां प्रसारयितुं च अत्यन्तं सफलतमप्रयासे संलग्नोस्ति।

संस्कृतभाषा सर्वासां भाषाणां पोषिका रक्षिका च अस्ति, यतः तस्या व्याकरणं शब्दार्थविज्ञानं च अस्ति। अस्माकं राष्ट्रे राष्ट्रभाषा रूपेण का अपि भाषा नास्ति, यद्यपि सर्वासां भाषाणां जननी संस्कृतैव अस्ति।

हिब्रूभाषिणः जनाः स्वभाषां पुनर्जीवितवन्तः, तेन रूपेणैव ‘संस्कृतभारती’ अपि तत् लक्ष्यम् उपनिनाय यत् संस्कृतभाषा आन्तरराष्ट्रीयभाषा रूपेण व्यवहाराय च विश्वकल्याणाय च सम्भाषणान्दोलनस्य रूपेण प्रचर्यताम्।

बौद्धिकसत्रे संस्कृतभारत्याः प्रान्तमन्त्री श्रीगिरीशतिवारी महोदयः उत्तरपश्चिमक्षेत्रस्य आवासीयप्रशिक्षणवर्गे प्रेरणां प्रदत्तवान्। ते उक्तवन्तः यत् संस्कृतस्य सम्भाषणस्वरूपस्य संवर्धनं कुर्वन्तः कार्यकर्तारः समर्पितजीवनं यथार्थतः यान्ति। अद्य यत् समाजे संस्कृतभाषायां सम्भाषणं दृश्यते, तस्य मूलं संस्कृतभारत्याः कार्यकर्तृणां यत्नः एव अस्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button