हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य डॉ. नरेन्द्रपाण्डेयवर्यस्य भारतीयोन्नत-अध्ययन-संस्थाने, राष्ट्रपतिनिवासे, शिमलायां सहायकानुसन्धानसहयोगीरूपेण चयनम्

धर्मशाला, हिमाचलप्रदेशः — हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागे सहायक-प्राध्यापकपदे कार्यरतः डॉ. नरेन्द्रकुमारपाण्डेयमहाभागः भारतीये उन्नत-अध्ययन-संस्थाने, राष्ट्रपतिनिवासे, शिमलायां सहायकानुसन्धानससयोगीरूपेण
चयनितः अभवत्। अस्य गौरवपूर्णस्य सिद्धेः अवसरस्य निमित्तं विश्वविद्यालयपरिवारे छात्रसमुदाये च हार्दं हर्षः उत्पन्नः।
भारतीयं उन्नत-अध्ययन-संस्थानं देशस्य प्रमुखेषु शैक्षिकसंस्थासु अग्रगण्यं संस्थानम् वर्तते । अस्मिन् संस्थाने चयनम् अत्युत्तमानां विदुषां शोधक्षमतायाः, शैक्षिकयोगदानस्य च आधारेण क्रियते। डॉ. पाण्डेयमहाभागस्य चयनं तेषां भारतीय-शास्त्रीय-ज्ञानपरम्परायां समर्पणस्य, संस्कृतविषये तेषां विशिष्टशोधकार्यस्य, अध्यापनकौशलस्य च साक्ष्यमस्ति।
एषः चयनः तेषां शैक्षिकजीवनस्य संस्कृतसेवायाः च एकं महत्त्वपूर्णं चरणम् अस्ति, यत् तान् भारतस्य प्रमुखैः विद्वद्भिः सह अनुसंधानविमर्शयोः अवसरं प्रदास्यति। अस्मिन संस्थाने चयनिताः सहायकानुसन्धातार: स्वस्य शोधकार्यस्य विकासाय, देश-विदेशस्थैः विद्वद्भिः संवादाय, भारतीयपरम्परायाः वैश्विकमंचे प्रस्तुतीकरणाय च अवसरं लभन्ते।
एतस्मिन् अवसरे शोधछात्रः रामकिशनः डॉ. पाण्डेयमहाभागं हार्दं अभिनन्द्य उक्तवान् – “एषा केवलं डॉ. पाण्डेयस्य व्यक्तिगतसिद्धिः नास्ति, किन्तु विश्वविद्यालयस्य विभागस्य च कीर्तिवृद्धिकारकः आनन्दकारणम् अपि।”
डॉ. नरेन्द्रपाण्डेयः विगतद्वाविंशतिवर्षपर्यन्तप्राय: ‘संस्कृतभारती’-रूपेण समाजे सेवाम् अकरोत्। तैः देशस्य नानाभागे विद्यमानानां यूनां कृते, विदुषां, विदुषीनां कृते च संस्कृतसम्भाषणस्य लाभः प्रदत्तः।
डॉ. नरेन्द्रपाण्डेयमहाभागं अस्य गौरवस्य अवसरस्य निमित्तं हार्दाः शुभकामनाः।