शान्तिकुञ्जे द्विदिवसीयशिक्षकगरिमाशिविरं ,
संस्कारयुक्तशिक्षाविषये प्रशिक्षिता: अभवन् शिक्षकाः

हरिद्वारनगर्यां शान्तिकुञ्जेन देवसंस्कृतिविश्वविद्यालयेन सह आयोजितं “शिक्षकगरिमाशिविरं” द्विदिवसीयम् अत्यन्तं सफलतया समायोजितम्। अस्मिन् शिविरे देशस्य विविधभागेभ्यः आगतानां शताधिकानां शिक्षकानां सहभागः दृष्टः। संस्कारः, संस्कृति, सनातनदर्शनम्, च शैक्षिकदृष्ट्या गायत्रीमन्त्रस्य प्रभावः, एतेषां विषयेभ्यः प्रशिक्षणं प्रभावी अभवत्।
शिविरस्य उद्घाटनं वैदिकमन्त्रपाठेन दीपप्रज्वलनेन समारभत्। मुख्यवक्तारः “शान्तेः सन्देशः”, “संस्कारः च संस्कृति:”, “गायत्रीमन्त्रस्य प्रभावः”, “शिक्षायाः क्षेत्रे शान्तिकुञ्जस्य योगदानम्” इत्येतेषु विषयेषु विस्तृतं भाषणं दत्तवन्तः।
वक्तारः अवदन् यत् अधुनातनशिक्षायाम् केवलं तान्त्रिकदक्षता न पर्याप्ता, अपि तु नैतिकमूल्यानि, करुणा, च भारतीयसंस्कृतेः बोधः आवश्यकः। शान्तिकुञ्जसंस्था राष्ट्रनिर्माणार्थं शिक्षकवर्गं जागरयन्ती चेतयन्ती च अस्ति।
“भारतीयसंस्कृतिज्ञानपरीक्षा” विषयकं विशेषचर्चासत्रम् अपि आयोज्यते स्म, यत्र शिक्षायाम् संस्कृतिबोधः कथं समावेशनीयः इत्यस्य विवेचनं सञ्जातं। ज्ञायते च यत् परीक्षा एषा न केवलं ज्ञानं ददाति, अपि तु शीलपरिवर्तनं, दृष्टिकोणपरिवर्तनं च करोति।
सत्रे सर्वे शिक्षकाः गायत्रीमन्त्रे आधारितं जीवनदर्शनम्, योगः, ध्यानं च शिक्षायाः अङ्गरूपेण स्वीकर्तुं प्रतिज्ञां कृतवन्तः।
अन्ते दीपयज्ञः च सामूहिकप्रार्थना च आयोजिता, यत्र विश्वशान्तये, सद्भावनायै, च शिक्षकेभ्यः जागरूककर्तव्यनिर्वाहाय विशेषाह्वानं कृतम्।