उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

पण्डितमथुराप्रसादविश्वपर्यावरणसम्मानेन” डॉ. बर्थ्वालः कण्डवालः च सम्मानितौ जातौ

समितेः कार्याध्यक्षः डॉ. रमाकान्तकुकरेती स्वपितुः श्रीस्वर्गीयपण्डितमथुराप्रसादस्य पुण्यस्मृतौ पर्यावरणसेवार्थं समर्पितानां व्यक्तीनां प्रति सम्मानम् उद्घोषयत्

कोटद्वारम्। विश्वपर्यावरणदिवसस्य अवसरं निमित्त्य देवभूमि-उत्कर्षसेवासमित्याः आयोजने एकः भव्यः प्रेरणादायकः च समारोहः सम्पन्नः, यस्मिन् पर्यावरणरक्षणक्षेत्रे विशिष्टं योगदानं कृत्वा व्यक्तयः “पण्डितमथुराप्रसादविश्वपर्यावरणसम्मानं २०२५” इत्यनेन सम्मानिताः अभवन्।

समितेः कार्याध्यक्षः डॉ. रमाकान्तकुकरेती स्वपितुः श्रीस्वर्गीयपण्डितमथुराप्रसादस्य पुण्यस्मृतौ पर्यावरणसेवार्थं समर्पितानां व्यक्तीनां प्रति सम्मानम् उद्घोषयत्।

ग्राम्य-एकताप्रगतिप्रेमाञ्जलिसमागमसमित्याः (गेप्स्) संस्थापकनिर्देशकः रामभरोसा कण्डवालः, अस्यै प्रतिष्ठायाः सम्मानप्राप्ताधिकारी अभवत्। सः अष्टमदशकात् आरभ्य निरन्तरं पर्यावरणरक्षणे अनुकरणीयं कार्यं कृत्वा समाजाय आदर्शः जातः। तद्वदेव देवभूमि-उत्कर्षसेवासमित्याः अध्यक्षः डॉ. चन्द्रमोहनबर्थ्वालः अपि पर्यावरणसंवर्धनक्षेत्रे स्वीयं महत्वपूर्णं योगदानं कृत्वा सम्मानार्हः अभवत्।

अस्मिन् गरिमायुक्ते समारोहे श्रीदुर्गाशक्तिमञ्चस्य अध्यक्षा श्रीमती देवकीरावत: मुख्यातिथिरूपेण उपस्थितासीत्, या स्वकरकमलैः उभौ विशिष्टपुरुषौ सम्मानयामास।

कार्यक्रमस्य सशक्तं संचालनं श्रीमनमोहनकालेन कृतम्। अस्मिन् अवसरे श्रीरामभरोसाकण्डवालः स्वमातुः पुण्यस्मृतौ “असलदेव” अभियानान्तर्गतं वृक्षारोपणं कृत्वा पर्यावरणप्रतिज्ञां पुनः प्रत्यक्षीकृतवान्।

कार्यक्रमे विचारगोष्ठी अपि आयोजिता यत्र अध्यक्षः, मुख्यातिथिः, च उभौ सम्मानितव्यक्ती च पर्यावरणरक्षणस्य आवश्यकता, समस्याः, च समाधानानि विषये सारगर्भं भाषणं कृतवन्तः। सर्वैः जनसमूहं प्रति पर्यावरणचेतनायाः प्रचारं करणीयम् इति आवाहनं कृतम्।

एतत् देवभूमि-उत्कर्षसेवासमित्याः आयोजनं न केवलं जनमानसस्य पर्यावरणविषये जागरणाय एकं सार्थकं प्रयत्नं जातम्, अपि तु समाजाय प्रेरणास्त्रोत: अपि अभवत्।

अत्र कार्यक्रमे डॉ. रमाकान्तकुकरेती, डॉ. चन्द्रमोहनबर्थ्वालः, रामभरोसाकण्डवालः, मनमोहनकाला, दिनेशचौधरी, अभियन्ता जगतसिंहनेगी, श्रीमती रेखाध्यानी, श्रीमती नीरजागौडवर्या, श्रीमती सोमप्रभा कण्डवाल:, श्रीमती पूजाकण्डवाल:, श्रीमती मीनाक्षी बर्थ्वाल:, नन्दनसिंहनेगी, सुबोधकुमारगौड:, कुमारी प्रियारावत:, वैशालीचौहान:, च श्रीमती देवकीरावत: इत्यादयः गण्यमान्यव्यक्तयः अपि सन्निहिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button