उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

“सिन्दूराभियाने ” अमरवीराणां स्‍मरणाय वृक्षारोपणं कृतम्

कण्वनगरीकोटद्वारं । उत्तराखण्डं। विश्वपर्यावरणदिवसस्य अवसरं प्रति कटकपर्वत-खेल-प्रोत्साहन-समितिना कोटद्वार-रेलवे-परिसरे वृक्षारोपणकार्यक्रमः समारब्धः। अस्मिन् कार्यक्रमे “हरितसेना देवभूमिः उत्तराखण्डं” इत्यस्या: संस्थायाः सहयोगः अभवत्। प्रथमतः कटपर्वत-खेल-प्रोत्साहन-समितेः नेतृत्वे परिसरस्य स्वच्छता-अभियानं आयोजितम्। नगरं स्वच्छं हरितञ्च कर्तुं जनजागरणं क्रियते स्म, च नगरं पॉलिथीन-वर्जितं कर्तुं जनैः याचना: अपि कृताः।

कटकपर्वत-खेल-प्रोत्साहन-समितिना “सिन्दुराभियाने वीरमृत्युञ्च प्राप्तानां सैनिकानां स्मरणाय रेलवे-स्थाने वृक्षारोपणं कृतम्। अस्मिन् वृक्षारोपणे औषधीयानि च फलप्रदा: च वृक्षपादपाः रोपिताः, यथा – जाम्बूनः, निम्बः, अमलतास् इत्यादयः। तेषां वृक्षाणां जीवनपर्यन्तं रक्षणं, गुडनं च निरोधनं च कर्तुं प्रतिज्ञा अपि कृता।

अस्मिन् अवसरे कटकपर्वत-संस्थायाः अध्यक्षः बबलू नेगी, हरितसेना देवभूमेः अध्यक्षः शिवमनेगी, संदीपबिष्टः, अञ्चलकुमारः अग्रवालः, देवभूमि-कीर्तन-मण्डल्याः सदस्याः – पूजानेगी, अनीता रावत:, आरोही नेगी, मधुरौथाण:, अथर्व: नेगी, शिवानी, अमितबलोदी, नीरजढोंडियाल:, शालू रावत: वायुसेवायाः सैनिकः दीपकबिष्टः, सूरजराठिः इत्यादयः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button